नानार्थार्णवसंक्षेपे धिष्ण्यस्तु याज्ञिकानां ना वह्निभेदेषु केषुचित् । तेषां स्थानेषु चान्ये तु वह्निमात्रे प्रचक्षते ॥ ६४५ ॥ शुक्राङ्गारकयोः क्ली तु नक्षत्रे स्थानगेहयोः । अजयस्तु बलेऽप्येतत् स्वनिघण्टावचीकृंतत् ॥ ६४६ ॥ आसनेऽथ स्त्रियां धिष्ण्या स्यादुल्कायामथो पुमान् । धीरोऽब्धौ मन्थरे तु त्रिर्धृतिमद्विदुषोरपि ॥ ६४७ ।। स्त्री तु धीरा गुडूच्यां स्याद् धीवा व्याधौ पुमान् द्वयोः । मत्स्ये कश्चित् तु देवे द्वे त्रि तु कर्मकरे स्त्रियाम् ॥ ६४८ ॥ धीवरीत्याह ना तु स्याद् ध्रुवः शम्भुविरिञ्चयोः । औत्तानपादौ कीलेऽथ त्रिर्नित्ये निश्चले स्फुटे ॥ ६४९ ॥ ध्रुवा तु स्त्री सालपर्ण्या गीतिस्रुग्भेदयोर्भुवि । धूर्त्तः पुंसि महादेवे नीपे कुरवकेऽपि च ।। ६५० ॥ धुर्धूरे च प्रसूने तु क्लीबमेषां महीरुहाम् । अयोमयेऽपि पत्राङ्गे भेद्यलिङ्गं तु वञ्चके || ६५१ ॥ धूको व्याधौ नरीत्येके कामिलायां तु केचन । धूका स्त्रीत्यभ्यधुर्घृष्टिर्घर्षणे स्त्री पुमांस्त्वयम् ॥ ६५२ ।। रश्मौ धृ(षु?ष्णु)*र्ना सन्तापे शैले चोरे तु स त्रिषु । प्रगल्भे वैजयन्त्यां तु धृष्टे चेत्याह ना पुनः ॥ ६५३ ॥ धृत्वा विष्णौ गिरावब्धौ यतिनि स्त्री तु धृत्वरी । भूमौ धेनुस्तु हस्तिन्यां नवसूतगवीगिरोः ॥ ६५४ ॥ स्त्री क्ली तु सामभेदे स्याद् धोतस्तु नरि मारुते । शठे तु त्रिर्नटः पुंसि टुण्डुवृक्षे द्वयोः पुनः || ६५५ ॥ १. 'करतू' ग. पाठ:. २. 'पा' ङ. पाठ:. ३. 'ड' ख. ङ. पाठः.
धृष्णुर्घुष्टे प्रगल्भे च' (पु. २२८. श्लो. ९) इति वैजयन्ती ।