पृष्ठम्:नवरात्रप्रदीपः.djvu/८४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३८
नवरात्रपदीपे-

  सर्व्वलोकोपकारार्थं विशेषादसिवृत्तिभिः।
  कर्त्तव्यं ब्राह्मणार्द्यैश्च क्षत्रियैर्लोकपालकैः ॥
  गोधनार्थे तथा वैश्यैः शूद्रेः पुत्रसुखार्थिभिः।
  सौभाग्यार्थे तथा स्त्रीभिरन्यैश्च धनकाङ्क्षिभिः॥
  महाव्रतं महापुण्यं शङ्करार्द्यैरनुष्ठितम् ।
  कर्तव्यं देवराजेन्द्र ! देवीभक्तिसमन्वितैः ॥

अथ पूजाकर्तृनियमाः ।

देवीपुराणे--

  अयाची त्वथ वैकाशी नक्ताशी त्वथ वाय्वदः ।
  प्रातःस्नायी जितद्वन्द्वस्त्रिकालं शिवपूजकः ॥
  जपहोमसमासक्तः कन्यका भोजयेत्सदा ।

 एकाशी=एकभक्ताशी । वाय्वदो वायुभक्षः । जितद्वन्द्वः=शीतोष्णक्षुत्पिपासादिद्वन्द्वदुःखेष्वनुद्विग्नः। शिवा दुर्गा तत्पूजकः । छान्दसः पुंवद्भावः ।

  त्रिकालं पूजयेद्देवीं जपहोपरायणः।।

इति तत्रैव श्रवणात् । यद्वा–शिवश्च शिवा च शिवौ। तयोः पूजकः शिवपूजकः । इयं चाङ्गभूता त्रिकालपूजा । प्रधानभूता तु नक्तकाल एव । उक्तं चैतत्प्रा-