राज्यनाशाय या प्रोक्ता निन्दिता साऽश्वपूजने ॥
इति निर्णयामृतोदाहृतकल्पतरुलिखितवचनात् ।
एवं चाऽमायुक्तप्रतिपद्ग्रहणे नवरात्राऽभिधस्य नक्त
व्रतत्वात्
कर्मणो यस्य यः कालस्तत्कालव्यापिनी तिथिः।
इत्यादिवाक्योपात्तोऽपि कालो लभ्यते । माधवाचार्यै
र्द्वितीयाप्रकरणे कर्मकालव्याप्तिशास्त्रस्यैव शास्त्रान्तरेभ्यः
प्राबल्याऽभिधानात् । दृष्ट च पार्वणादिषु ।
प्रतिपत्सम्मुखी कार्या या भवेदापराह्णिकी ।
इत्यादीनि त्वनुगुणान्येव भवन्ति । यत्तु ‘तस्य दैवकर्मत्वात् “पूर्वाह्णो वै देवानाम्” इत्यादिश्रुत्या च
दैवे कर्मणि पूर्व्वाह्वविधानात् पूर्व्वाह्णव्यापिन्यां प्रतिपदि
तदारम्भसिद्धिरिति, तदपि न ।
प्रतिपत्सैव विज्ञेया या भवेदापराह्णिकी ।
दैवं कर्म तथा ज्ञेयं पित्र्यं च मनुरब्रवीत् ।
इतिवचनेनाऽपराह्णव्यापिन्यामपि प्रतिपदि दैत्रकर्मविधानात् । न च स्मृतेः श्रुतिर्बलीयसीति वाच्यम् । तस्याः ‘तस्मादपराह्णे ददाति” इतिविधिशेषत्वेन स्वार्थाऽवि