पृष्ठम्:नवरात्रप्रदीपः.djvu/२६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२०
नवरात्रप्रदीपभूमिकायाम्-

लोक्तेः । सा चाऽमानाम्‍नी भगवती महामाया क्षयोदयरहिता नित्या तिथिसंज्ञका इति तत्र तत्र प्रतिपादितम् । यथा च पठ्यते--

अमा षोडशभागेन देवि ! प्रोक्ता महाकला ।
संस्थिता परमा माया देहिना देहधारिणी ।
अमादिपौर्णमास्यन्ता या एव शशिनः कलाः ।
तिथयस्ताः समाख्याताः षोडशैव वरानने ! ॥ इति ।

 तथा च रहस्यभूता सर्वत्र विद्यमानाऽपि बहिर्मुखानामगम्या ध्रुवा क्षयोदयवर्जिता षोडशी कलैवामानाम्‍नी महाकला तद्‍युक्तः कालो महाकालः । सा च महाकाली तदङ्गभूता एव पुनः पुनर्बहिर्निगच्छन्त्यः पुनः पुनश्चान्तार्निलीयमानाः पञ्चदश कलाः प्रतिपदादिनामव्यपदेश्याः तत्तद्दिवसव्यवहारोपयोगिन्यो भवन्ति । तत्र शुक्लपक्षे एकैका कला बहिर्निर्गत्य चन्द्रमण्डलं पूरयति ताश्च प्रतिपदादयः पूर्णिमान्ताः। कृष्णपक्षे च क्रमेणैकैका कला लीयते । ता अपि क्रमेण प्रतिपदादनामभाजो भवन्ति । षोडशी कला तु "तस्य रात्रयः पञ्चदश कला ध्रुवैषाऽस्य षोडशी कला” इति श्रुतिप्रतिपादिता नित्यं सूर्ये एव वर्तते । अत एव तिथयः पञ्चदशैव व्यवह्रियन्ते । पौराणिकानां मते ताः पञ्चदश कलाः क्रमेण कृष्णपक्षे वह्न्‍यादयः प्रजापत्यन्ता देवः पिबन्ति, शुक्लपक्षे चोद्गिरन्तीति क्रमेण तासां तिथीनां प्रतिपदादिनामानि भवन्ति । ज्योतिःशास्त्रे त्वन्यथैव प्रतिपादितं तद्ग्रन्थान्तरतोऽवसेयम् । तत्त्वतस्तु सर्वमप्येकमेव । +