पृष्ठम्:नवरात्रप्रदीपः.djvu/२५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१९
ग्रन्थपरिचयः

वति तयोरेव सम्मेलनं सुखकरमित्यत्र न कश्चन सन्देहलेशोऽपि । अत एव "ययोरेव समं वित्तं" इत्यादयो लौकिक्यो गाथा अपि याथातथ्येनानुभूयन्ते । एवमेवोचितसमये तद्योग्योपचारैयोग्यदेवतायाः पूजने योग्यमेव फलमपि भवतीति । समीहितफलाऽभिलाषिणा योग्यायोग्यविचारपूर्वकमेव सर्वमाचरणीयम् । एवं सति प्रथमत इदमालोचनीयम्, शक्तिपूजने कः कालः समुचितः स्यादिति । तत्र चालोच्यमाने

"निशि भ्रमन्ति भूतानि शक्तयः शूलऋष्टयः ।"
"'रात्रिरूपा यतो देवी दिवारूपो महेश्वरः ।"

 इत्यादिवचनपर्यालोचनया अनिर्वचनीयया स्वाऽनुभूत्या च रात्रिरेव मुख्यः काल इति समायाति । नक्तव्रतत्वाच्चाऽस्य व्रतस्य देवीपूजाया मुख्यः कालः प्रदोषकाल एव । तद्व्यापिन्येव च प्रतिपदपि ग्राह्येति युक्तम् । किं च ये आग्रहग्रहिला निजकुशाङ्करशेमुषीवैभवबलेन केवलं शास्त्रीयवचनाऽनुपूर्वीमेव पश्यन्तो द्वितीयाविद्धामेव प्रतिपदं व्यवस्थापयन्ति, हन्त बहिर्मुखास्ते दूरत एव नमस्करणीयाः । यतः अमातत्त्वं न हि कदाचिदपि विचारितं तैः । यद्यपि तैस्तिथिविचारादौ तैस्तैर्वचनजातैस्तत्तत्तिथिविचारः शोभनं विहितः, परं यदि स एवाऽध्यात्मदृशाऽकरिष्यत तदा नैतादृश आग्रहस्तैः कृतः स्यात् । तथा हेि अमानाम सा तिथिः यत्र सूर्याचन्द्रमसोः परः सन्निकर्षो भवति । “यः परो विप्रकर्षः सूर्याचन्द्रमसोः सा पौर्णमासी । यः परः सन्निकर्षः साऽमावास्या” इति गोभि-