पृष्ठम्:नवरात्रप्रदीपः.djvu/२०

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
१४
नवरात्रप्रदीपभूमिकायाम्-

व्यतोक्‍त्या पूर्वाह्णे षोडशघटिकासम्पाताभावे पूर्वाह्ण एव मुख्यः काल इति गम्यते । तथा च पूर्वाह्णस्य कर्मकालत्वेन तद्व्यापिन्या द्वितीयाविद्धाया एव ग्राह्यत्वे सिद्धे यदि कानि चिदमाविद्धाग्राह्यताप्रतिपादकवचनानि समूलान्यपि भविष्यन्ति ततस्तानि द्वितीयाविद्धाया अभावे योजनीयानि ।" इति द्वैतनिर्णयकृच्छङ्करभट्टाः । यच्चान्यत्र नवरात्रस्याSस्य नक्तव्रतत्वं माधवाचार्यादिभिरुद्धोषितं तदप्येते वैकल्पिकत्वेन व्यवस्थाप्य तन्मतं च "सत्यमिदमेव रात्रिव्रतत्वेन” इत्यादिना “तेनाऽयं माधवग्रन्थः सर्वथाप्यलग्नकः केवल भक्तिग्राह्य एवेत्युपेक्षणीयः” इत्यन्तेन ग्रन्थेन माधवाचार्यप्रतिपादित देवीपूजायां प्रदोषकालस्य मुख्यतया कर्मकालत्वं खण्डयन्ति । अन्यदपि सर्वं विस्तरतो द्वैतनिर्णयतोऽवसेयम् । विस्तरभिया नाऽत्र लिख्यते । एवमेव कमलाकरभट्टादयोऽपि द्वितीयाविद्धमेव मुख्यतया ग्राह्यां प्रतिपदं मन्यन्ते । परं तु तद्वंश्या एव रघुनाथभट्टास्तु पुनः नैवं मन्यन्ते। ते हि कालतत्त्वविवेचनाऽभिधे स्वनिबन्धे "अत्र हि नवरात्रशब्दो रात्रिशब्दस्याहोरात्रपरस्य तिथिविषयपूर्ववाक्यैकवाक्यतया औत्सर्गिकपूर्णतिथेरेव प्रायो व्यवहारविषयत्वेन सम्प्रतेिपत्त्या च तिथिलक्षकत्वात् सप्तम्यन्तः कालरूपगुणविधिः । द्वितीयान्तोSपि क्वचिच्छ्रुतः "कालाध्वनोरत्यन्तसंयोगे” (पा०सू०२-३-५) इतिवचनात्तादृश एव, न तु नामधेयम् ।" इत्यादि ‘‘तस्माद्गुणविधिरेव नवरात्रशब्दो न नामधेयम् । "यद्यपि च देवीपुराणे कालत्रये पूजनमुक्तम्--