पृष्ठम्:नवरात्रप्रदीपः.djvu/१९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१३
ग्रन्थपरिचयः

 अत्र सर्वत्र कालाकाङ्क्षाया ‘पूर्वाह्ने’ इति सम्बध्यते । एवं च पूर्वाह्णस्यैव पूजकालत्वसिद्धिः । अतः पूर्वाह्णरूपकर्मकालव्यापिनी द्वितीयाविद्धैव प्रतिपन्नवरात्रप्रक्रमे ग्राह्येति सिद्धान्तः । रात्रेः कर्मकालत्वप्रतिपादकानि वचननि तु गौणकालपरत्वेन नेयानि । ननु पूर्वाह्णस्यैव कुतो न गौणकालत्वं वाच्यम् । मैवम् । उत्तरकालस्यैव गौणतौचित्यात् ।

 स्वकालादुत्तरः कालो गौणः सर्वः प्रकीर्तितः । इति मण्डनोक्तेः ।

 न चैवमनेनैव सिद्धे रात्रेः कर्मफलत्वप्रतिपादकवचननामानर्थक्यम् । सामान्यवाक्यस्य नित्यविषयत्वात्काम्ये नवरात्रव्रते विशेषतो गौणकालप्रतिपादनस्याऽर्थत्त्वात् । यद्यपि “वर्षे वर्षे च कर्तव्यम्" इति वीप्सया "वसन्ते वसन्ते ज्योतिषा यजेत" इतिवन्नित्यताऽत्रेष्यते । तथाऽपि नानाफलश्रवणस्या‍ऽपि सत्त्वात् ज्योतिष्टोमवदेव नित्यकाम्यत्वात् काम्यप्रयोगार्था गौणकालोक्तिः । इतरत्र सामान्यवचनादेव सिद्धेः’ इति । यद्वा रात्रावपि पूजान्तरविधायकत्वेन रात्रिकर्मकालवाक्यानि व्याख्येयानि । अत एव देवीपुराणे--

शुद्धेतिथौ प्रकर्त्तव्या प्रतिपच्चोर्ध्वगामिनी ।
आद्यास्तु नाडिकास्त्याज्याः षोडश द्वादशाऽपि वा ।।
अपराह्णे च कर्तव्य शुद्धसन्तानकाङ्क्षिभिः ।

 इति हि यदा प्रतिपत्षष्टिदण्डाऽहोरात्रं व्याप्य वर्त्तते तदा। आद्यषोडशद्वादशनाडीनां निषिद्धत्वात्तदैव चाऽपराह्णेऽपि कर्त