पृष्ठम्:नवरात्रप्रदीपः.djvu/१५७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
११२
नवरात्रप्रदीपे-

तथा-

 शमी शमयते पापं शमी आयुष्यवर्द्धिनी ।
 अर्जुनस्य धनुर्धात्री रामस्य प्रियवादिनी ॥ इति ।

तत्र च राममूर्तिं नीत्वा मृद्ग्रहणं कार्यम् । तदुक्तम्-

 गृहीत्वा साक्षतां सार्द्रां शमीमूलगतां मृदम् ।
 गीतवादित्रनिर्घोषैस्ततो देवं गृहं नयेत् ॥

तच्च सायंकाले कार्यम् । तदुक्तं चिन्तामणौ--

 आश्विनस्य सिते पक्षे दशम्यां तारकोदये ।
 स कालो विजयो ज्ञेयः सर्वकार्यार्थसिद्धये ॥

रत्नकोशेऽपि--

 ईषत्सन्ध्यामतिक्रान्तः किञ्चिदुन्निद्रतारकः ।
 विजयो नाम कालोऽयं सर्वकामार्थसाधकः ॥

कालोत्तरेऽपि-

 आश्विनस्य सिते पक्षे दशम्यां सर्वराशिषु ।
 सायंकाले शुभा यात्रा दिवा वा विजयक्षणे ॥

'विजयनामकः क्षणो विजयक्षणः । तल्लक्षणमाह