पृष्ठम्:नवरात्रप्रदीपः.djvu/१२९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
८४
नवरात्रपदीपे-

मांसरुधिरैः कृत्वा नवम्या बलिम्’ इति । ज्योतिःशास्त्रेपि -

 कुर्याज्जागरमष्टम्यां नवम्यां विधिवद्बलिम् ।

तथा -

 सप्तम्यां पत्रिकपूजा अष्टम्यां चाऽप्युपोषणम् ।
 पूजा च जागरं चैव नवम्यां विधिवद्बलिः ॥ इति ।

“उत्तरासु बलिं दद्यात्” इति च । अत एव दशम्यां निषेधोऽपि -

 दशम्यां दीयते यत्र बलिदानं च मानवैः ।
 तद्राष्ट्रं नाशमायाति मकरोपद्रवैः स्फुटम् ॥ इति ।

ब्रह्मवैवर्तेऽपि -

 अत्राऽपराह्णिके काले बलिदानं प्रशस्यते ।
 दशमीं वर्जयेत्तत्र नाऽत्र कार्या विचारणा ॥
 नन्दाया दशेने रक्षा बलिदानं दशासु च ।
 भद्रायां गोकुलक्रीडा देशनाशाय जायते ॥

कालनिर्णयेऽपि -

 नवम्यां ज्वलनं वह्नेः पूर्णायां पशुघातनम् ।
 भद्रायां गोकुलक्रीडा तत्र राज्यं विनश्यति ॥