पृष्ठम्:नवरात्रप्रदीपः.djvu/१२८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
८३
नवमीपूजाविधिः

जघान महिषं दुष्टमवध्यं देवतादिभिः।
लब्धाऽभिषेक वरदा शुक्ले चऽऽश्वयुजस्य तु ॥
तस्मात्सा तत्र सम्पूज्या नवम्यां चण्डिका बुधैः ।
महत्त्वं हि यतः प्राप्ता अत्र देवी सरस्वती ।
अतोऽर्थे महती प्रोक्ता नवमीयं सदा बुधैः ।
पूजयित्वा महादेवीं नवम्यां चण्डिकां शुभाम् । ।
महत्त्वं प्राप्तवान् वीर ! ब्रह्मा विष्णुस्तथा हरः ।
तस्मादियं महापुण्या नवमी पापनाशिनी ।
उपोष्या तु प्रयत्नेन सततं सर्वपार्थिवैः ।
मासि चाऽऽश्वयुजे वीर ! शुक्लपक्षे त्रिशूलिनीम्॥
नवम्यां पूजयेद्यस्तु तस्य पुण्यफलं शृणु ।
अश्वमेधसहस्रस्य राजसूयशतस्य च ॥
तत्फलं लभते वीर ! देवीदेवगणैर्वृतः।

 {{gap}}अथ बलिदानम् ।
राजमार्त्तण्डे - "नानाजातेः पशोर्वा हतिरपि नवमीरौद्रयोगे प्रदिष्टा" इति । तथा - "अष्टम्यामशनरहितस्त्यक्तनिद्रश्च पूजाम्" इत्युक्त्वा "प्रातःकाले पशुबलिविधिः" । कात्यायनोऽपि "नानापाशवमज्ज-