पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/८५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३४
सटीकलोचनोपेतध्वन्यालोके


दयमनःप्रीतये तत्स्वरूपं ब्रूमः ।


लोचनम्

यः । प्राच्या हि. विपर्यस्ता एव सर्वथा । मध्यमास्तु तद्रूपं जानाना अपि सन्देहेना- पह्ववते । अन्त्यास्त्वनपह्नवाना अपि लक्षयितुं न जानत इति क्रमेण विपर्याससन्देहा- ज्ञानप्राधान्यमेतेषाम् । तेनेति। एकैकोऽप्ययं विप्रतिपत्तिरूपो वाक्यार्थो निरूपणे हेतुत्वं प्रतिपद्यत इत्येकवचनम् । एवंविधासु विमतिष्विति निर्धारणे सप्तमी । आसु मध्ये एकोऽपि यो विमतिप्रकारस्तेनैव हेतुनातत्स्वरूपं ब्रूम इति, ध्वनिस्वरूपमभिधेयम्, अ-

बालप्रिया

विपर्यस्ताः देहात्मवादिचार्वाका इव विपर्ययज्ञानयुक्ताः । मध्यमाः भाक्तवादिनः। तुशब्दः पूर्वेभ्यो विशेषं द्योतयति, तमाह-तद्रूपं जानाना अपीति । सम्मुग्ध- तया यत्किञ्चिदस्ति वाच्यातिरिक्तमिति तद्रूपं जानन्तोऽपीत्यर्थः । सन्देहेन मुख्यगुण- वृत्तिव्यतिरिक्तव्यापारस्य अस्तित्वनास्तित्वाभ्यां सन्देहेन अपहृवते। 'निढुवत' इति च पाठः । अनपढुवाना इति । तद्रूपमित्यनुषङ्गः। 'अनिहुवाना' इति च पाठः । लक्ष- यितुमिति । ध्वनिमिति शेषः । फलितमाह-इतीति । विपर्यासस्य ध्वनिस्वरूप- जिज्ञासां प्रति प्रतिवन्धकत्वं, सन्देहस्य त्वनुकूलत्वमतस्तद्वतोः पूर्वापेक्षयोत्तरस्यो. त्कर्षः । अन्त्यस्य तु लक्षणकरणमात्रविषयकाज्ञानम् । तस्य सुखोच्छेद्यत्वादुभयापेक्ष. याप्युत्कर्ष इति भावः । एकैकोऽपीति । किमुत त्रय इत्यपिशब्दार्थः । इत्येक- वचनमिति । 'तेने त्यत्र तत्पदेन पूर्ववाक्यत्रयार्थाः परामृश्यन्ते । तृतीयया तेषां ध्वनिस्वरूपवचने हेतुत्वमुच्यते । एकवचनेन तु तेषां प्रत्येकं हेतुत्वमस्तीति बोध्यत इति भावः । उक्तार्थानुगुणं वृत्ति विवृणाति-एवमित्यादि । निर्धारणे सप्तभीति । न तु भावलक्षणे सप्तमीति भावः । निर्धारणं प्रकटयन्नाह-आस्वित्यादि । वृत्तौ 'तेने'- त्यस्य व्याख्यानं 'एवमित्यादि 'स्थितास्वित्यन्तम् । तत्र एकेनापीति पूरणीयमित्या- शयेनाह-एकोऽपीत्यादि । 'तस्याभावं जगदुः' 'तेन तत्स्वरूपं ब्रूमः' 'भाक्तमाहुः'


 १. विप्रतिपत्तिरूप इति । विवादाध्यासितो ध्वनिः कालसम्बन्धी न वेति प्रथमे, ध्वनिर्गुणवृत्तिभिन्नो न वेति द्वितीये, ध्वनिर्लक्षयितुं शक्यो न वेति तृतीये च विप्रति- पत्तय इत्यर्थः ।

 २ 'यस्य च भावेन भावलक्षणम्' (पा. सू., २. ३. ३५.) इति सूत्रेणेत्यर्थः । तथा च सति ज्ञानजनकज्ञानविषयत्वरूपलक्षणार्थकसप्तम्या एकैकस्य विप्रतिपत्तिप्रका- रस्य निरूपणहेतुत्वं न प्रतीयेत । यतश्च निर्धारणम्' ( पा. सू., २. ३. ४१.) इति निर्धारणसप्तम्या तु घटकत्वाद्यर्थिकया तत्तद्विमतिघटितसमुदायघटकेन केनाप्येकेन वि- प्रतिपत्तिप्रकारेण ध्वनिस्वरूपनिरूपणस्य प्रयोज्यता सुप्रतीता भवतीति भावः ।