पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/८४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३३
प्रथमोद्योतः


 केचित्पुनर्लक्षणकरणशालीनबुद्धयो ध्वनेस्तत्त्वं गिरामगोचरं सहृदय- हृदयसंवेद्यमेव समाख्यातवन्तः । तेनैवंविधासु विमतिषु स्थितासु सह-


लोचनम्

लिखितपाठकैस्तु स्वरूपविवेकं कर्तुमशक्नुवद्भिस्तत्स्वरूपविवेको न कृतः, प्रत्युतोपाल- भ्यते, अभग्ननारिकेलवत् यथाश्रुततद्ग्रन्थोद्ग्रहणमात्रेणेति । अत एवाह-परिक- ल्प्यैवमुक्तमिति । यद्येवं न योज्यते तदा ध्वनिमार्गः स्पृष्ट इति पूर्वपक्षाभिधानं विरुध्यते ।

 शालीनबुद्धय इति । अप्रगल्भमतय इत्यर्थः । एते च त्रय उत्तरोत्तरं भव्यबुद्ध-

बालप्रिया

तत्स्वरूपविवेको न कृत इति। अत्र हेतुः-स्वरूपविवेकं कर्तुमशक्नुवद्भिरिति। तैरित्यनुषङ्गः । अशक्तौ हेतुर्यथेत्यादि । लेखनानतिक्रमेण लक्ष्यभूतानि ध्वनिकाव्यानि पठितवद्भिरित्यर्थः । यद्वा-यथेत्युपमायां लिखितपाठकैरिवेत्यर्थः। अविशेषज्ञैरिति या. वत् । न केवलं ध्वनिस्वरूपविवेकाकरणमेव, विवेचनार्हतत्स्वरूपापलापश्चेत्याह-प्रत्युते- त्यादि । उपालभ्यते प्रतिक्षिप्यते । तैरित्यनुषङ्गः । ध्वनिरिति शेषः । उपालम्भोऽ- यं भामहादीनामनुमेयो, भट्टोद्भटग्रन्थटीकाकारादीनां तु प्रत्यक्षः। अभग्ननारिके- लवदिति । षष्टयन्ताद्वतिः । उद्ग्रहणमित्यनेनास्य सम्बन्धः । उपालम्भे हेतुं दर्श- यति-यथाश्नुतेति । यथाश्रुतं विचारं विना यत्तद्ग्रन्थानां लक्ष्यभूतानां ध्वनियुक्तकाव्य. ग्रन्थानामुद्रहणं धारणं तन्मात्रेणेत्यर्थः । 'अभग्ननारिकेलकल्पयथाश्रुतेति च पाठः । अत एवेति । उक्तार्थाभिप्रायादेवेत्यर्थः । वृत्तौ 'इतीति हेतौ । इति परिकल्प्ये त्या- देरयमर्थः—यतो भट्टोद्भटादिभिर्ध्वनिमार्गस्पर्शमात्रं कृतं, न तु ध्वनिस्वरूपविवेचनं, प्रत्युत तदुपालम्भश्च, ततो हेतोर्भक्तिरेव ध्वनिर्न तदतिरिक्त इति तदभिप्रायमुक्तिपर्यन्तं कल्पयित्वा 'भाक्तमाहुस्तमन्ये' इत्युक्तमितिः । ननु 'ध्वनिमार्ग' इत्यादिग्रन्थः किमर्थ- मेवं व्याख्यातः ? ध्वनेर्मार्गः-मृग्यतेऽन्विष्यते विचार्यते इति मार्गः अविवक्षितवाच्य- लक्षणो भेदः स्पृष्टः ज्ञात इति कुतो न व्याख्यात इत्यत आह-यद्येवमित्यादि । विरुध्यत इति । ध्वन्यवान्तरभेदस्य ज्ञाने सति गुणवृत्तिरेव ध्वनिर्न तदतिरिक्त इति वचनमसङ्गतं भवेदित्यर्थः । यद्वा-ननु ‘न लक्षित' इति ग्रन्थो न दृष्ट इति यथाश्रुतार्थ- परतया कुतो न व्याख्यात इत्यत आह-पद्येवमित्यादि । 'न लक्षित' इति अन्य इति शेषः । विरुध्यत इति । ध्वनेः स्पृष्टत्वस्यादृष्टत्वस्य च वचन विरुद्ध स्यादित्यर्थः।

 विप्रतिपत्तिप्रकाराणामेषा मुक्तौ क्रमो विवक्षित इत्याह-एत इत्यादि । अभाव- वादित्रयमेकीकृत्य त्रय इत्युक्तिः । भव्यबुद्धयः सद्बुद्धयः । भव्यबुद्धित्वं विविच्य दर्शयति-प्राच्या इत्यादि । प्राच्याः अभाववादिनः । सर्वथा प्रकारत्रयेणापि।