पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२२
सटीकलोचनोपेतध्वन्यालोके


प्रकारस्य काव्यत्वहानेः सहृदयहृदयाहादिशब्दार्थमयत्वमेव काव्यलक्ष. णम् । न चोक्तप्रस्थानातिरेकिणो मार्गस्य तत्सम्भवति । न च तत्सम-


लोचनम्

चासौ नृत्तगीतवाद्यादिस्थानीयः काव्यस्य कश्चित् । कवनीयं काव्यं, तस्य भावश्च काव्य- त्वम् । न च नृत्तगीतादि कवनीयमित्युच्यते ।

 प्रसिद्धति । प्रसिद्धं प्रस्थानं शब्दार्थों तद्गुणालङ्काराश्चेति, प्रतिष्टन्ते परम्परया व्यवहरन्ति ग्रेन मार्गेण तत्प्रस्थानम् । काव्यप्रकारस्येति । काव्यप्रकारत्वेन स मार्गोऽभिप्रेतः, 'काव्यस्यात्मा' इत्युक्तत्वात् । ननु कस्मात्तत्काव्यं न भवतीत्याह-सहृदयेति । मार्गस्येति । वृत्तगीताक्षिनिकोचनादिप्रायस्येत्यर्थः । तदिति । सहृदयेत्यादिकाव्यलक्षणमित्यर्थः । ननु ये तादृशमपूर्वं काव्यरूपतया जान-

बालप्रिया

काव्यस्य समुदायितया सम्बन्धित्वेन ह्यसौ वक्तव्यः । न च गुणादिभ्यो व्यतिरेके सति काव्यसम्बन्धित्वमस्य शक्योपपाद, नृत्तगीतादिवत् । तदयं प्रयोग:-विवादाध्यासितो ध्वनिः, न काव्यं, शब्दार्थातिरिक्तत्वात् ; न च काव्यसम्बन्धी, तद्गुणाल कारातिरिक्त- त्वात् , नृत्तगीतादिवदिति । न च साध्यविकलो दृष्टान्तः, तेषामकवनोयत्वेन काव्य त्वा- भावस्य तत्सम्बन्धित्वाभावस्य च प्रसिद्धत्वादित्यर्थः । नृत्तगीतादेर्नाट्यस्थले शोभाका- रित्वरूपविशेष मनसिकृत्य दृष्टान्ततया कथनम् ।

 स्वोक्तार्थपरतया प्रसिद्धत्यादिग्रन्थं व्याचष्टे-प्रसिद्धमित्यादि । प्रतिष्ठन्त इत्यस्य व्याख्या-परम्परयेत्यादि । परम्परया अविच्छिन्नप्रवाहेण । व्यवहर- न्ति काव्यव्यवहारं कुर्वन्ति । येन मार्गेण मार्गतुल्येन येन । ध्वनेः काव्यप्रका- रत्वोक्तिप्रन्यभाववादिनो व्याहतेत्याशय परप्रसिद्धथुपजीविनी तदुक्तिरित्याह- काव्येत्यादि । काव्यप्रकारत्वेन काव्यभेदत्वेन । तत्वेनाभिमत इति तदर्थ इति भावः । वृत्तौ ‘प्रसिद्धेत्यादिना पूर्वोक्तो हेतुर्दर्शितः । काव्यत्वहानेरित्यनेन साध्यश्चेति वोध्यम् । इत्याहेति । इत्याशङ्कायामाहेत्यर्थः । मार्गपदेन प्रकृते विवक्षितं व्याचष्टे-- नृत्तेति । अक्षिनिकोचनादीत्यादिपदेनाक्षिसम्भविनां विकारान्तराणां परिग्रहः । प्रायशब्दस्तुल्यार्थकः । सहृदयेत्यादीति । सहृदय हृदयाहादिशब्दार्थमयत्वमित्यर्थः । 'सहृदयहृदयालादीत्यनेन गुणालङ्कारसुन्दरत्वमुक्तम् । 'न च तत्समयेत्यादिवृत्तिग्रन्थ एक एव शङ्कोत्तरात्मकः । तत्र शङ्काभागं विवृणोति-नन्वित्यादि । ताब्दशमिति । यत्तत्र भवद्भिर्तृत्तगीतादिप्रायमिति सोपहासमुक्तं ध्वनिस्वरूपन्तदित्यर्थः । अपूर्व पूर्वमनुन्मीलितम् । जानन्तीत्यनेन 'तत्समयान्तः पातिनः सहृदयान् कांश्चिदिति


१. ध्वनित्वस्याऽप्रसिध्या तद्रूपेण पक्षताया निर्वक्तुमशक्यत्वाद्विवादाध्यासितत्वेन तां समर्थयितुमाह-विवादाध्यासित इति ।