पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/६८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२५
प्रथमोद्योतः


र्भावात् । तेषामन्यतमस्यैव वा अपूर्वसमाख्यामात्रकरणे यत्किञ्चन कथनं स्यात् ।

 किञ्च वाग्विकल्पानामानन्त्यात्सम्भवत्यपि वा कस्मिंश्चित्काव्यलक्ष- णविधायिभिः प्रसिद्धैरप्रदर्शिते प्रकारलेशे ध्वनिर्ध्वनिरिति यदेतदलीक-


लोचनम्

 ननु विच्छित्तीनामसंख्यत्वात्काचित्तादृशी विच्छित्तिरस्माभिर्दृष्टा, या नानुप्रसादौ, नापि माधुर्यादावुक्तलक्षणेऽन्तर्भवेदित्याशङ्कयाभ्युपगमपूर्वकं परिहरति-वाग्विकल्पा- नामिति । वक्तीति वाक् शब्दः । उच्यत इति वागर्थः । उच्यतेऽनयेति वागभिधा- व्यापारः । तत्र शब्दार्थवैचित्र्यप्रकारोऽनन्तः । अभिधावैचित्र्यप्रकारोऽप्यसंख्येयः । प्रकारलेश इति । स हि चारुत्वहेतुर्गुणो वालङ्कारो वा। स च सामान्यलक्षणेन संगृहीत एव । यदाहुः- - 'काव्यशोभायाः कर्तारो धर्मा गुणाः, तदतिशयहेतवस्त्वलङ्का- राः' इति । तथा 'वक्राभिधेयशब्दोक्तिरिष्टा वाचामलङ्कृतिः' इति । ध्वनिर्ध्वनिरिति वीप्सया सम्भ्रमं सूचयन्नादरं दर्शयति-नृत्यत इति । तल्लक्षणकृद्भिस्तद्युक्तकाव्यवि-

बालप्रिया

 'किञ्च वाग्विकल्पानामित्यादिग्रन्थं व्याख्यास्यमानं मनसिकृत्यावतारयति लोचने- नन्विति । विच्छित्तीनामिति । विविधं छिद्यन्त इति विच्छित्तयः वैचित्र्याणि, ता- साम् । अनुप्रासादावित्यादिपदेनोपमादेः प्ररिग्रहः । उक्तलक्षण इति द्वयोर्विशेषणम् । भवदुक्तलक्षण इत्यर्थः । अभ्युपगमपूर्वकमिति । किञ्चेत्यनेनाभ्युपगमो दर्शितः । 'वाग्विकल्पानामि'त्यत्र वाक्पदं नानार्थकं विकल्पपदं वैचित्र्यार्थकमिति व्याचष्टे-वक्ती- त्यादि । अभिधावैचित्र्येति । एतत्तु कुन्तकादिमताभिप्रायेणोक्तम् । भावार्थ विवृ- णोति-स हीत्यादि । सः प्रकारलेशः। स च चारुत्वहेतुश्च । वामनोक्तन्तल्लक्षण- माह-काव्यशोभाया इत्यादि । तदतिशयेति। काव्यशोभातिशयेत्यर्थः । भामहोक्त- चाह-तथा वक्रेति। वक्रा विचित्रा चमत्कारकारिणी। अभिधेयशब्दयोः वाच्यवा- चकयोरुक्तिरभिधा। एवञ्च यद्यद्वैचित्र्यान्तरमुल्लिख्यते तस्य तस्य कथितगुणालङ्कारसामा- न्यलक्षणसगृहीतत्वात्तत्कर्त्रदृष्टत्वमसम्भाव्यमिति भावः। वीप्सयेति द्विवचनेनेत्यर्थः । सम्भ्रममिति । ध्वनिवादिनो ध्वनिप्रस्थानस्थापने त्वरामित्यर्थः । सूचयन्निति । स- म्भ्रमे द्योत्ये द्विर्वचनमत्रेति भावः । आदरमिति । ध्वनिवादिनो ध्वनावादरमित्यर्थः । 'नृत्यत' इत्यत्र कर्तृपदमौचित्यात्पूरयति-तदित्यादि । तत्पदं ध्वन्यर्थकम् । केचि- द्ध्वनिलक्षणकृतः , केचित्तयुक्तकाव्यविधायिनः , केचित्तत्काव्यश्रवणोद्भूतचमत्काराः


१. वा. सू., ३..१.१-२.

२. भामहालङ्कर., १.३६.