पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/५१५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४३२
सटीकलोचनोपेतध्वन्यालोके


 अविवक्षितवाच्यस्तु ध्वनिर्गुणवृत्तेः कथं भिद्यते । तस्य प्रभेदद्वये गुणवृतिप्रभेदद्वयरूपता लक्ष्यत एव यतः । अयमपि न दोषः । यस्मादवि. वक्षितवाच्यो ध्वनिर्गुणवृत्तिमार्गाश्रयोऽपि भवति न तु गुणवृत्तिरूप एव ! गुणवृत्तिर्हि व्यञ्जकत्वशून्यापि दृश्यते । व्यञ्जकत्वं च यथोक्तचारुत्वहेतुं


लोचनम्

 एवमभ्युपगमं प्रदर्श्याक्षेपं दर्शयति-अविवक्षितेति । तुशब्दः पूर्वस्माद्विशेषं द्योतयति । तस्येति । अविवक्षितवाच्यस्य यत्प्रभेदद्वयं तस्मिन् गौणलाक्षणिकत्वात्मकं प्रकारद्वयं लक्ष्यते निर्भास्यत इत्यर्थः। एतत्परिहरति-अयमपीति । गुणवृत्तर्यो मार्गः प्रभेदद्वयं स आश्रयो निमित्ततया प्राक्कक्ष्यानिवेशी यस्येत्यर्थः । एतच्च पूर्वमेव निर्णीतम् । ताद्रूप्याभावे हेतुमाह-गुणवृत्तिरिति । गौणलाक्षणिकरूपोभयी अपी- त्यर्थः । ननु व्यञ्जकत्वेन कथं शून्या गुणवृत्तिर्भवति, यतः पूर्वमेवोक्तम्-

मुख्या वृत्तिं परित्यज्य गुणवृत्त्यार्थदर्शनम् ।
यदुद्दिश्य फलं तत्र शब्दो नैव स्खलद्गतिः ॥ इति ।

 न हि प्रयोजनशून्य उपचारः प्रयोजनांशनिवेशी च व्यञ्जनव्यापार इति भवद्भि- रेवाभ्यधायीत्याशङ्कवाभिमतं व्यञ्जकत्वं विश्रान्तिस्थानरूपं तत्र नास्तीत्याह-व्यञ्जक-

बालप्रिया

लोचने-दर्शयतीति । पूर्वपक्षीति शेषः । गुणवृत्तीत्यादेर्विवरणम्- गौणेत्यादि। लक्ष्यत इत्यस्यार्थान्तरभ्रमनोदनाय विवृणोति-निर्भास्यत इति । न हीत्यादिनोक्तप्रकारेणेति शेषः । प्राक्कक्ष्येति । व्यञ्जनातः पूर्वकक्ष्येत्यर्थः । पूर्वमेवेति । न हीत्यादिग्रन्थे 'भ्रम धार्मिके' त्यादिगाथाव्याख्यानावसरे वेत्यर्थः । ताप्याभाव इति । गुणवृत्तिरूपत्वाभाव इत्यर्थः । ननु गुणवृत्तिहिं व्यञ्जक- त्वशून्यापि दृश्यत इत्यनेनैवाविविक्षितवाच्यस्य गुणवृत्तिरूपत्वाभावे सिद्धे व्यञ्ज- कत्वञ्चेत्यादिग्रन्थः किमर्थं इत्यतस्तद्ग्रन्थमवतारयति-नन्वित्यादि। ननु पूर्वो. क्तिरन्यपरैवास्त्वित्यत आह-न हीत्यादि । इतीत्यादि । अन्यवाक्यं तिष्ठतु इति भवद्भिरेवाभ्यधायि चेत्यर्थः । अभिमतमित्यस्यैव विवरणम्-विश्रान्तिस्था. नरूपमिति । तत्रेति । गुणवृत्तिमात्र इत्यर्थः । नास्तीति । व्यञ्जकत्वं न व्यञ्जनक- रणत्वमात्रमत्र विवक्षतं, किन्तु विश्रान्तिस्थान भूतव्यञ्जन करणत्वम् । तत्तु चारुत्वहेतु. व्यङ्गयव्यञ्जनं विना न भवतीत्यर्थः । व्यञ्जकत्वशून्यापि दृश्यत इत्युक्तस्यैव विवरणं वृत्तौ ‘गुणवृत्तिस्त्वि'त्यादि । गुणवृत्तिस्तु वाच्यधर्माश्रयेणैव व्यङ्ग्यमात्राश्रयेण च सम्भ- वति । सा अभेदोपचाररूपा यथेत्याद्यन्वयो यापीत्यादिवाक्ये वाच्येत्यादेव्यङ्गद्येत्यादे- श्चानुषङ्गश्व बोध्यः । तत्र वाच्यधर्माश्रयेणेत्येतत्प्रकृतानुगुणं विवृणोति लोचने-