पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/५१४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४३३
तृतीयोद्द्योतः


व्यङ्गयं विना न व्यवतिष्ठते । गुणवृत्तिस्तु वाच्यधर्माश्रयेणैव व्यङ्गयमा. त्राश्रयेण चाभेदोपचाररूपा सम्भवति, यथा- - तीक्ष्णस्वादग्निर्माणवकः, आह्लादकत्वाचन्द्र एवास्या मुखमित्यादौ । यथा च 'प्रिये जने नास्ति पुनरुक्तम्' इत्यादौ । यापि लक्षणरूपा गुणवृत्तिः साप्युपलक्षणीयार्थसंब. न्धमात्राश्रयेण चारुरूपव्यङ्गयप्रतीतिं विनापि सम्भवत्येव, यथा--मच्चाः क्रोशन्तीत्यादौ विषये ।


लोचनम्

त्वं चेति। वाच्यधर्मेति । वाच्यविषयो यो धर्मोऽभिधाव्यापारस्तस्या- श्रयेण तदुपबृंहणायेत्यर्थः । श्रुतार्थापत्ताविवार्थान्तरस्याभिधेयार्थोपपादान एव पर्यवसा. नादिति भावः । तत्र गौणस्योदाहरणमाह-यथेति । द्वितीयमपि प्रकारं व्यञ्जकत्व. शून्यं निदर्शयितुमुपक्रमते-यापीति । चारुरूपं विश्रान्तिस्थानं, तदभावे स व्यञ्ज. कत्वव्यापारो नैवोन्मीलति, प्रत्यावृत्त्य वाच्य एव विश्रान्तेः, क्षणदृष्टनष्टदिव्यविभवः प्राकृतपुरुषवत् ।

बालप्रिया

वाच्यविषयो यो धर्म इति । वाचकस्येति शेषः। भावार्थविवरणम्-तदुपबृंह- णायेति । अभिधेयार्थोपबृंहणायेत्य: । कथं गुणवृत्तेस्तदुपबृंहणार्थत्वमित्यतस्सदृष्टान्त- -श्रुतेत्यादि । यथा पीनो देवदत्तो दिवा न भुङ्क्त इत्यादौ श्रुतस्य पीनत्वादे रुपपादकतया रात्रिभोजनादिकं कल्प्यते । कल्पितस्य तस्यार्थान्तरस्य पीनत्वाद्युपपा. दन एव पर्यवसानञ्च तथा गुणवृत्तिस्थलेऽर्थान्तरस्य लक्ष्यस्य पदान्तराभिधेयार्थोप. पादन एव वर्यवसितिर्यतस्तस्मादित्यर्थः । वृत्तौ व्यङ्गयमात्राश्रयेणे'त्यत्र मात्रपदेन चारुत्वहेतुर्मुख्यव्यङ्गयं व्यावर्त्य॑ते । 'प्रिये जन इति । प्रिय इति तीक्ष्णत्वादित्यादिव. द्गुणरूपहेतुकथनं पुनरुक्तपदेनानुपादेयत्वं लक्ष्यत इति पूर्वमेवोक्तम् । एषूदाहरणेषु तीक्ष्णत्वादिगुणानामाधिक्यं व्यङ्गयं, तत्तु न चारूत्वकारीति भावः । 'उपलक्षणीयेति । उपलणीयो लक्ष्यो योऽर्थो मञ्चस्थबालकादिस्तेन सह यस्सम्बन्ध भाधाराधेयभावा- दिर्मश्चादिपदमुख्यार्थस्य तन्मात्राश्रयेणेत्यर्थः । मात्रपदव्यावर्त्यकथनं 'चारूरूपे'. त्यादि । 'मच्चा' इति । अत्र मञ्चस्थबालकानां बहुत्वादिकं व्यङ्गधं तदपि न चारुत्व- कारि । 'चारुरूप मित्येतद्विवृणोति लोचने-विश्रान्तीति । ननु विनापि चाव्यमय- प्रतीतिं व्यन्जनाव्यापारो भवत्वित्यत आह-तभाव इत्यादि । तदभावे चारु- व्यङ्गयाभावे । सः लक्षणामूलकः । उन्मीलति प्रकाशते । कुत इत्यत आह-प्रत्या. वृत्येत्यादि । क्षणेति । क्षण एव दृष्टो नष्टश्च दिव्यविभवो यस्य सः तथाविधो यः प्राकृतो दरिद्रः पुरुषः तद्वत् । तस्य यथा प्रत्यावृत्य प्राकृतविभव एव तथा व्यञ्जना.

 ५५ ध्व