पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/५१२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४३१
तृतीयोद्द्योतः


यान्तरमाक्रामति, यथा-- 'गङ्गायां घोषः' इत्यादौ । तदाविवक्षितवाच्य- त्वमुपपद्यते । अत एव च विवक्षितान्यपरवाच्ये ध्वनौ वाच्यवाचकयो- र्द्वयोरपि स्वरूपप्रतीतिरर्थावगमनं च दृश्यत इति व्यञ्जकत्वव्यवहारो युक्त्यनुरोधी। स्वरूपं प्रकाशयन्नेव परावभासको व्यञ्जक इत्युच्यते, तथाविधे विषये वाचकत्वस्यैव व्यञ्जकत्वमिति गुणवृत्तिव्यवहारो निय मेनैव न शक्यते कर्तुम् ।


लोचनम्

लक्षणां दर्शयति । अनेन भेदद्वयेन च स्वीकृतमविवक्षितवाच्यभेदद्वयात्मकमिति सूचय- ति । अत एव अत्यन्ततिरस्कृतस्वार्थशब्देन विषयान्तरमाक्रमति चेत्यनेन शब्देन तदेव भेदद्वयं दर्शयति-अत एव चेति । यत एव न तत्रोक्तहेतुबलाद्गु- णवृत्तिव्यवहारो न्याय्यस्तत इत्यर्थः । युक्ति लोकप्रसिद्धिरूपामवाधितां दर्शयति-स्व- रूपमिति । उच्यत इति प्रदीपादिः, इन्द्रियादेस्तु करणत्वान्न व्यञ्जकत्वं प्रतीत्युत्पत्तौ।

बालप्रिया

दर्शयतीत्यादि । उक्तगुणवृत्तिशब्दार्थाभिप्रायेण 'यदा निमित्तेने त्यादिग्रन्थेन गौणी 'यदा वा स्वार्थमि. त्यादिग्रन्थेन लक्षणाञ्च दर्शयतीत्यर्थः । ननु गुणवृत्तेर्बहुरूपत्वेऽपि किमितीदं भेदद्वयं सोदाहरणं दर्शितमित्यत शह-अनेनेत्यादि । अनेन दर्शितेन । सूचयतीत्यत्र गमकमाह-अत एवेत्यादि । तदेव भेदद्वयमिति । अविवक्षितवाच्य- भेदद्वयमेवेत्यर्थः । वृत्तौ 'न ही त्यादि । विवक्षितवाच्यत्वं तदा न ह्युपपद्यत इति सम्बन्धः। 'विषयान्तरे' माणवकादौ । 'शब्दः अग्न्यादिशब्दः । अग्निर्माणवक इत्यादौ ह्यग्न्यादिपदं तीक्ष्णत्वादिगुणवत्वेन माणवकादिकं लक्षयतीत्यतोऽत्यन्ततिरस्कृ. तस्वार्थं तत् । 'स्वार्थमिति । गङ्गादिशब्दमुख्यार्थमित्यर्थः । 'अंशेनापरित्यजन्नि- ति । गङ्गादिशब्दो, हि गङ्गातीरत्वादिना केवलतीरत्वादिना वा गङ्गायास्तीरमेव लक्षय- तीत्यतोंऽशेन स्वार्थापरित्यागः । 'तत्सम्बन्धद्वारेणेति । सामीप्यरूपस्वार्थसम्बन्धेन निमित्तेनेत्यर्थः । विषयान्तर' तीरादिकम् । 'आक्रामति' स्वविषयमापादयति । शब्द इत्यनुषङ्गः, गङ्गादिशब्द इत्यर्थः । लोचने-युक्तिमिति । युक्त्यनुरोधीत्यत्रोक्तां युक्तिमित्यर्थः । पूरयति-प्रदीपादिरिति । ननु व्यञ्जकत्वं ज्ञापकत्वं, तत्तु मुख्य- मिन्द्रियादेस्ततः किं सहकारिभूतप्रदीपादिग्रहणमित्यत आह-इन्द्रियादेस्त्विति । आदिपदेन लिङ्गादेर्ग्रहणम् । प्रतीत्युत्पत्तौ करणत्वाद्वयञ्जकत्वं नेति सम्बन्धः । वृत्ती 'तथाविधे विषय' इति । वाच्यवाचकप्रतीतिपूर्वकप्रतीतिविषयेऽर्थान्तर इत्यर्थः । 'वाचकत्वस्यैवेति वाचकत्वाश्रय्येवेत्यर्थः । 'कथं भिद्यत' इति । न भिद्यत इत्यर्थः । अत्र हेतुमाह-तस्ये त्यादि ।