पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/५११

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४३०
सटीकलोचनोपेतध्वन्यालोके


नास्तीति यदुच्यते तद्युक्तम् । यस्माद्वाच्यवाचकप्रतीतिपूर्विका यत्रार्था- न्तरप्रतिपत्तिस्तत्र कथं गुणवृत्तिव्यवहारः, न हि गुणवृत्तौ यदा निमित्तेन केनचिद्विषयान्तरे शब्द आरोप्यते अत्यन्ततिरस्कृतस्वार्थः यथा-'अग्नि- र्माणवकः' इत्यादौ, यदा वा स्वार्थमंशेनापरित्यजस्तत्सम्बन्धद्वारेण विष.


लोचनम्

ङ्कानिवारणार्थोऽयमुपक्रमः । अत एवाद्यभेदस्याङ्गीकरणपूर्वकमयं द्वितीयभेदाक्षेपः । विवक्षितान्यपरवाव्य इत्यादिना पराभ्युपगमस्य स्वामीकारी दर्श्यते । गुणवृत्ति. व्यवहाराभावे हेतुं दर्शयितुं तस्या एव गुणवृत्तेस्ताववृत्तान्तं दर्शयति-न हीति । गुणतया वृत्तिर्व्यापारोगुणवृत्तिः । गुणेन निमित्तेन सादृश्यादिना च वृत्तिः अर्थान्तर- विषयेऽपि शब्दस्य सामानाधिकरण्यमिति गौणं दर्शयति । यदा वा स्वार्थमिति

बालप्रिया

क्षण्यदुर्निरूपत्वाशङ्केत्यर्थः । अयमुपक्रमः वृत्तिकारोपक्रमः । अत्रोपष्टम्भकमाह-अत. एवेत्यादि । आद्यभेदस्य विवक्षितान्यपरवाच्यस्य । द्वितीयभेदेति । अविवक्षित- वाच्येत्यर्थः । अत्र हेतुं दर्शयति-विवक्षितेत्यादि । न हीत्यादिग्रन्थस्य फलं दर्शय- न्नवतारयति-गुणवृत्तीत्यादि । हेतुं दर्शयितुमिति । विवक्षितान्यपरवाच्य इति शेषः । गौणलाक्षणिकोभयसाधारणं गुणवृत्तिशब्दार्थमाह-गुणतयेत्यादि । गुणतया अप्रधानतया । अभिधावृत्तिर्हि प्रधानभूता। व्यापार इति । शब्दस्येति शेषः। अनेन गौणस्य लाक्षणिकस्य च संग्रहः । गौणे गुणवृत्तिशब्दस्यार्थान्तरच्चाह-गुणेनेत्यादि । गुणेनेत्यस्य विवरणम्-सादृश्यादिनेति । निमित्तेनेति तृतीयार्थकथनम् । उक्तस्यैव विवरणम्-अर्थान्तरविषयेऽपीत्यादि । अर्थान्तरमेव विषयस्तस्मिन् । इति गौणं


 १. स्वार्थमंशेनापरित्यजन्निति । अग्निर्माणवक इत्यत्र अग्नेः अग्निसदृशे लाक्ष- णिकतया सादृश्यस्य भेदघटितत्वेन लक्ष्यकुक्षौ वाच्यार्थाप्रवेशाद् भवतीयं जहत्स्वार्था, गङ्गायां घोष इत्यत्र तु गङ्गापदस्य गङ्गातीरे लक्षणया लक्ष्यघटकतया शक्यस्यापि गङ्गापदार्थस्य प्रतीत्यासावजहत्स्वार्थत्याह-स्वार्थमंशेनापरित्यजन्निति । यदा च गङ्गा- शब्दस्य तीरमात्रे लक्षणा तदेषापि जहत्स्वार्थैव समाकलनीया ।

 वयन्त्वत्र विभावयामः-यत्र शक्यार्थस्य स्वरूपेण रूपान्तरेण वा पदार्थान्तरेणा- न्वयः शाब्दमतौ भासते तत्राजहत्स्वार्था, यथा यष्टयः प्रविशन्ति इत्यादौ काकेभ्यो दधि रक्ष्यतामित्येवं प्रमृतिनि च । अत्र हि यष्टीनामपि यष्टित्वेन प्रवेशनक्रियायाम. न्वयः, काकानां च दध्युपघातकत्वेन रक्षणान्वयः। पूर्वत्र उभयत्र च नाग्नेर्माणवका- न्वयः, न च गङ्गाया घोषे । तथा चात्र द्वयोर्जहत्स्वार्थैव सर्वथा । एवं च 'स्वसिद्धये पराक्षेपः परार्थ स्वसमर्पणमिति प्रकाशीयतल्लक्षणे 'स्वसिद्धये स्वार्थस्य अन्वयप्रवेश. सिद्धये' इति प्रदीपव्याख्यानं साधु संगच्छते।