क्तमेनं ध्वनेरात्मानमुपनिबध्नाति सुकविः समाहितचेतास्तदा तस्यात्मलाभो
भवति महीयानिति ।
क्रमेण प्रतिभात्यात्मा योऽस्यानुस्वानसन्निभः । |
लोचनम्
संप्लुष्यन्त्यथ कालकूट पटलीसंवाससन्दूषिताः । |
इत्यत्र हि रूपकसन्देहनिदर्शनास्त्यक्त्वा पुनरुपात्ता रसपरिपोषायेत्यलम्॥१८,१९॥
एवं विवक्षितान्यपरवाच्यध्वनेः प्रथमं भेदमलक्ष्यक्रमं विचार्य द्वितीयं भेदं विभ.
बालप्रिया
भृशं सम्प्लुष्यन्ति सन्तापयन्ति । अमृतच्छटात्मकत्वेन सम्प्लोषकत्वायोगादिति भावः । अस्योपपत्ति सन्दिहान आह-अथेत्यादि । अथेति विकल्पे । करा इत्यनुषज्यते । कालकूटानां पटल्या समूहेन यः संवासः द्वयोरेकोत्पन्नत्वात्सहवासः संसर्ग इति या. वत् , तेन सन्दूषिताः सन्तापकत्वादिस्वीयदोषविशिष्टाः कृताः । तर्हि ते किं कुतः प्राणान्न हरन्ति ? प्राणापहारकत्वस्यापि तत्स्वभावत्वादिति भावः । प्राणहरणाभावे हेतु. माशङ्कमान आह-उतेत्यादि । उतेति विकल्पे । प्रियतमायाः सञ्जल्पेषु यानि मन्त्रा- क्षराणि विषापहारीणि तैः । रक्ष्यन्ते प्राणा इति विपरिणामेनानुषङ्गः। अत्राप्यनुपपत्तिं -मन्यमान आह-किं त्वित्यादि । किमु कुतः । रूपकेति । करा अमृतच्छटा इति रूपकं, कालकूटेत्यादौ सन्देहः, प्रियतमासञ्जल्पेषु मन्त्राक्षरारोपान्निदर्शना । त्यक्त्वे- त्यादि । शीतांशोः कराः अमृतच्छटा इति रूपकस्य कस्मादित्यादिना त्यागः । अथेत्यादिना पुनरुपादानं, तथा सन्दूषितत्वसन्देहस्य 'किं प्राणानित्यादिना त्यागः, उतेत्यादिना पुनरुपादानमेवं प्रियतमेत्यादि निदर्शनायाः, मोहं मूर्छामेमि प्राप्नोमी- त्यनेन त्यागः । इयं गतिरवस्था पदार्थस्वभावः। का नो वेद्मि न जानामीत्यनेन पुनरुपादानं च प्रत्याय्यत इति भावः । यद्वा सम्प्लुष्यन्तीत्यन्तेन रूपकस्याऽहरन्ती. त्यन्तेन सन्देहस्य, एमीत्यन्तेन निदर्शनायाश्च त्यागः। नो वेद्मीत्यादिना तेषामु. पादानं चेति बोध्यम् ॥ १८-१९ ॥
हेतुत्वेनोपात्त इति । यतः क्रमेण भाति, अतोऽनुस्वानसन्निभ इत्यर्थ इति
१. प्रियतमासजल्पा एव मन्त्राक्षराणि इति निदर्शना । रूपकं तु न, विषयस्य सञ्जल्पस्य विषयिविशेषणतया प्रतिबिम्वभूतस्य मन्त्रस्य बिम्बभूतया प्रियतमया वि- 'शिष्टत्वात् । स्पष्टीकृतमिदं कुवलयानन्दादौ ।