पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/३१०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२३५
द्वितीयोद्द्योतः


 अस्य विवक्षितान्यपरवाच्यस्य ध्वनेः संलक्ष्यक्रमव्यङ्गयत्वादनुरणन- प्रख्यो य आत्मा सोऽपि शब्दशक्तिमूलोऽर्थशक्तिमूलश्चेति द्विप्रकारः ।

 ननु शब्दशक्त्या यत्रार्थान्तरं प्रकाशते स यदि ध्वनेः प्रकार उच्यते तदिदानीं श्लेषस्य विषय एवापहृतः स्यात् , नापहृत इत्याह-

आक्षिप्त एवालङ्कारः शब्दशक्त्या प्रकाशते ।
यस्मिन्ननुक्तः शब्देन शब्दशक्त्युद्भवो हि सः ॥२१ ।।

 यस्मादलङ्कारो न वस्तुमात्रं यस्मिन् काव्ये शब्दशक्त्या प्रकाशते स शब्दशक्त्युद्भवो ध्वनिरित्यस्माकं विवक्षितम् । वस्तुद्वये च शब्दशक्त्या प्रकाशमाने श्लेषः । यथा-

येन ध्वस्तमनोभवेन बलिजित्कायः पुरास्त्रीकृतो
यश्वोद्भुतभुजङ्गहारवलयो गङ्गां च योऽधारयत् ।


लोचनम्

क्तुमाह-क्रमेणेत्यादि । प्रथमपादोऽनुवादभागो हेतुत्वेनोपात्तः। घण्टाया अनुरणनम- भिघातजशब्दापेक्षया क्रमेणैव भाति । सोऽपीति । न केवलं मूलतो ध्वनि विविधः । नापि केवलं विवक्षितान्यपरवाच्यो द्विविधः । अयमपि द्विविध एवेत्यपिशब्दार्थः ॥२०॥

 कारिकागतं हिशब्दं व्याचष्टे-यस्मादिति । अलङ्कारशब्दस्य व्यवच्छेद्यं दर्शयति-न वस्तुमात्रमिति । वस्तुद्वये चेति । चशब्दस्तुशब्दस्यार्थे । येनेति । येन ध्वस्तं बालक्रीडायामनः शकटम् । अभवेनाजेन सता। बलिनो दानवान्यो जयति तादृग्येन कायो वपुः पुरामृतहरणकाले स्त्रीत्वं प्रापितः। यश्चोद्वृत्तं समदं कालियाख्यं भुजङ्गं हतवान् । रवे शब्दे लयो यस्य । 'अकारो विष्णुः' इत्युक्तेः। यश्चागं गोवर्धनपर्वतं गां च भूमिं पातालगतामधारयत् । यस्य च नाम स्तुत्यमृषय आहुः किं तत् ? शशिनं मथ्नातीति किप् राहुः, तस्य शिरोहरो

बालप्रिया

भावः । अनुस्वानपदार्थ विवृण्वस्तद्भानस्य क्रमिकत्वं दर्शयन्ति-घण्टाया इत्यादि । विवक्षितान्यपरवाच्य इत्यस्य स्थाने 'अविवक्षितवाच्या इति च पाठः । अपिशब्दार्थः 'सोऽपीयपि शब्दगम्यः ॥ २० ॥

 'न वस्तुमात्र मिति कारिकास्थैवकारव्यवच्छेद्यमिति भ्रमः स्यादतो व्याचष्टे- अलङ्कारशब्दस्येति । एवकारव्यवच्छेद्यमुपरि वक्ष्यति । येनेत्यत्रादौ विष्णुपक्षे व्याचष्टे-बालक्रीडायामित्यादि । 'तादृक्कायो येन स्त्रीत्वं प्रापित' इत्याद्यन्वयः । लय इति । तादाम्यमित्यर्थः । शब्दात्मक इति यावत् । तत्र प्रमाणमाह-प्रकार