पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/१६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१००
सटीकलोचनोपेतध्वन्यालोके


सटीकलोचनोपेतध्वन्यालोके दृतो जनो वाच्येऽर्थे यत्नवान् भवति । अनेन प्रतिपादकस्य कवे[नयम) प्रति व्यापारो दर्शितः । प्रतिपाद्यस्यापि तं दर्शयितुमाह- यथा पदार्थद्वारेण वाक्यार्थः सम्प्रतीयते । वाच्यार्थपूर्विका तद्वत्प्रतिपत्तस्य वस्तुनः ॥ १० ॥ यथा हि पदार्थद्वारेण वाक्यार्थावगमस्तथा वाच्यार्थप्रातिपूर्विका व्ययस्यार्थस्य प्रतिपत्तिः । लोचनम् प्रतिपदिति भावे विप् । 'तस्य वस्तुन' इति व्यङ्गयरूपस्य सारस्येत्यर्थः । अनेन श्लोक्रेनात्यन्तसहृदयो यो न भवति तस्यैष स्फुट संवेद्य एव क्रमः । यथात्यन्तशब्द- वृत्तज्ञो यो न भवति तस्य पदार्थवाक्यार्थ क्रमः । काष्टाप्राप्तसहृदयभावस्य तु वाक्यवृत्त- कुशलस्येव सन्नपि क्रमोऽभ्यस्तानुमानाविनोभावस्मृत्यादिवदसंवेद्य इति दर्शितम् ॥१०॥ बालप्रिया वृत्तौ 'प्रतिपाद्यस्येति । वाच्यार्थस्येत्यर्थः । 'तमिति । व्यङ्गयमर्थ प्रति व्यापा- रमित्यर्थः । स च स्वप्रतीत्युत्पादनरूपः । कारिकायां 'प्रतिपत्तस्येत्यनान्यथाप्रतिप. त्तिनिरासायाह-प्रतिपदित्यादि । प्रतिपत्तिरिति तदर्थ इति भावः । कारिकायां ‘पदार्थे'त्यस्य 'वाच्यार्थे'त्यस्य च ज्ञायमानतत्तदर्थेत्यर्थः । तत्तदर्थज्ञान मिति वा । 'सम्प्रतीयंत' इति । प्रतिपत्तृभिर्जायत इत्यर्थः । अत्र वाच्यव्यंग्यप्रतीत्योः पदार्थवा- क्यार्थप्रतीतिसाम्यकथनस्य फलान्तरमप्यस्तीत्याह-अनेनेत्यादि । 'अनेन श्लोकेन इति दर्शितमिति सम्बन्धः । यः यः प्रतिपत्ता । तस्य तथाविधस्य प्रतिपत्तुः । एषः वाच्यव्यंग्यनिष्ठः । अत्र दृष्टान्तमाह-यथेत्यादि । शब्दवृत्तेति । वाक्य- वृत्तेत्यर्थः । पदार्थत्यादि । स्फुटसंवेद्य इत्यनुषङ्गः । काष्ठाप्राप्तेति । उत्कर्षप्राप्ते- त्यर्थः । वाक्यवृत्त स्येति । वाक्यस्फोटादिकं जानत इत्यर्थः । सतोऽपि क्रमस्यासंवेद्यत्वे दृष्टान्तः-अभ्यस्तेत्यादि । अभ्यस्ते विषये अनुमानमनुमितिः अविनाभावस्मृतिः व्याप्तिस्मृतिः तयोः। आदिपदेन समयस्मृत्यर्थबोधयोः परिग्रहः। तद्वत्तन्निष्टक्रमवदित्यर्थः ॥ १० ॥ १. अविनाभावो व्याप्तिः । तथा हि-विनाशब्दस्याभाववानर्थः । साध्यमित्य- ध्याहार्यम् । तथा चान्वयवललभ्यसाध्याभाववतो निरूपितत्वसम्बन्धेन भावपदार्थे वृत्तित्वे, तस्य च विनापूर्ववर्तिनअर्थाभावेऽन्वयः । एवञ्च साध्याभाववन्निरूपित- वृत्तित्वाभावो व्याप्तिरिति फलितम् । वस्तुतस्तु-साध्याभाववन्मिरूपितकालिकादि- सम्बन्धावच्छिन्नवृत्तिताया वह्निमान् धूमादित्यादिस्थलीयसद्धेतावपि सत्तेनापतन्त्या