पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/१६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१०१
प्रथमोद्योतः

प्रथमोद्योतः - इदानी वाच्यार्थप्रतीतिपूर्वकत्वेऽपि तत्प्रतीतेर्व्यङ्गयस्यार्थस्य प्राधान्यं यथा न व्यालुप्यते तथा दर्शयति- स्वसामर्थ्यवशेनैव वाक्यार्थ प्रतिपादयन् । यथा व्यापारनिष्पत्तौ पदार्थो न विभाव्यते ॥ ११ ॥ लोचनम् न व्यालुप्यत इति । प्राधान्यादेव तत्पर्यन्तानुसरणरणरणकत्वरिता मध्ये विश्रा- न्ति न कुर्वत इति क्रमस्य सतोऽप्यलक्षणं प्राधान्ये हेतुः । स्वसामर्थ्यमाको. क्षायोग्यतासनिधयः। विभाव्यत इति । विशब्देन विभक्ततोक्ता; विभक्ततया बालप्रिया 'स्वसामर्थ्य त्यादिकारिकाद्वयमवतारयति वृत्तौ-'इदानीमित्यादि । 'तत्प्रतीतेः' व्यंग्यप्रतीतेः । 'न व्यालुप्यते' नापगच्छति प्रत्युत सिध्यति । ननु कारिकायां सतो- ऽपि क्रमस्यालक्षणं दर्शितं, तस्य कथं प्राधान्योपपादकत्वमित्यत आह–प्राधान्या- देवेत्यादि । प्राधान्यादेव व्यंग्यस्येत्यर्थात् । तदिति । तत्पर्यन्तं प्रयोजनभूतप्र- तीयमानार्थपर्यन्तं यदनुसरणं बुध्याऽनुधावनं, 'तत्तात्पर्येति पाठे प्रतीयमानरूपता- त्पर्यार्थ प्रति यदनुसरणमित्यर्थः । तत्र रणरणकेन औत्सुक्येन त्वरिताः सन्त इत्यर्थः । सहृदया इति शेषः । मध्ये वाच्यांशचर्वणायाम् । विश्रान्ति न कुर्वत इति । तथा च का कथा क्रमपर्यालोचनायामिति भावः । हेतुरिति । ज्ञापकमित्यर्थः । 'स्वसामर्थ्य त्यस्य स्वस्य पदार्थस्य यत् सामर्थ्य सहकारीत्यर्थाभिप्रायेण विवृणोति- आकांक्षेत्यादि । कारिकायां 'व्यापारनिष्पत्ता विति स्वव्यापारस्य वाक्यार्थप्रतिपादन- रूपस्य निष्पत्तौ सत्यां वाक्यार्थबुद्धावित्यर्थः। वृत्तौ 'विभक्ततये ति कारिकोपस्कार इति भ्रमं नुदति-विशब्देनेति । भाव्यते प्रतिपत्तृभिर्ज्ञायते । अनेनेति । विभा- अव्याप्तेर्वारणाय वृत्तौ हेतुतावच्छेदकसम्बन्धावच्छिन्नत्वस्य निवेशनीयतया, सत्ता- साध्यकद्रव्यत्वहेतावव्याप्तिः, सामान्यादिनिरूपितसमवायसम्बन्धावच्छिन्नवृत्तित्वा- प्रसिद्धः । अतस्साध्यं विना अभाव इति तदर्थः । साध्याभावत्वावच्छेदेनाभावस्यान्व- यात् अवच्छेदकत्वस्य च व्यापकत्वे पर्यवसानात् साध्याभावव्यापकीभूताभावप्रति- योगित्वमिति तदीयो निर्गलितार्थः । १ 'यत्पदस्य यत्पदाभावप्रयुक्तमन्वयबोधाजनकत्वं तत्पदविशिष्टतत्पदत्वमा. कांक्षा । वैशिष्टयञ्च अव्यवहितपूर्ववृत्तित्वाव्यवहितोत्तरत्वान्यतरसम्बन्धेन. बोध्यम् । यत्पदस्य षष्ठयन्तराजपदस्य, यत्पदाभावप्रयुक्तं पुरुषपदाभावप्रयुक्तं, अन्वयबोधाज- नकत्वं अन्वयबोधासमर्थत्वं, निरुक्तसम्बन्धेन राजपदविशिष्ठपुरुषपदत्वमाकांक्षैत्यर्थः 'एकपदार्थानुयोगिकापरपदार्थप्रतियोगिकरसम्बन्धो योग्यता'। 'अविलम्बेन पदार्थो- पस्थितिः सन्निधिः। -