पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/१६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
९९
प्रथमोद्योतः


 इदानी व्यङ्गयव्यञ्जकयोः प्राधान्येऽपि यद्वाच्यवाचकावेव प्रथममुपा. ददते कवयस्तदपि युक्तमेवेत्याह-

आलोकार्थी यथा दीपशिखायां यत्नवाअनः ।
तदुपायतया तद्वदर्थे वाच्ये तदाहतः॥९॥

 यथा ह्यालोकार्थी सन्नपि दीपशिखायां यत्नवाञ्जनो भवति तदुपाय. तया । न हि दीपशिखामन्तरेणालोकः सम्भवति । तद्वव्यङ्गयमर्थं प्रत्या.


लोचनम्

प्राधान्यमुक्तमिति ध्वनति धन्यते ध्वननमिति त्रितयमप्युपपन्नमित्युक्तम् ॥ ४ ॥

 नेनु प्रथमोपादीयमानत्वाद्वाच्यवाचकतद्भावस्यैव प्राधान्यमित्याशङ्कयोपायाना- मेव प्रथममुपादानं भवतीत्यभिप्रायेण विरुद्धोऽयं प्राधान्ये साध्ये हेतुरिति दर्शयति- इदानीमित्यादिना । आलोकनमालोकः; वनितावदनारविन्दादिविलोकनमित्यर्थः । तत्र चोपायो दीपशिखा ॥ ९ ॥

बालप्रिया

वक्ष्यमाणमुपपन्नमित्यर्थः ॥ ८ ॥

 व्यंग्यव्यञ्जकप्राधान्यानुवादेन वाच्यवाचकयोः प्रथमोपादानयुक्तत्ववचनं वृत्ताव- युक्त, प्राधान्यानुवादस्यानुपयोगादित्यतः शङ्कोत्तरत्वेन घटयति-नन्वित्यादि । वाच्येत्यादि । द्वन्द्वैकवद्भावः । प्रथमोपादीयमानत्वहेतोः को दोष इत्यतः सोऽपि दर्शित इत्याह-उपायानामेवेत्यादि । विरुद्ध इति । साध्याभावेनाप्राधान्येन व्याप्त इत्यर्थः । अप्रयोजक इत्यर्थो वा । आलोकशब्दस्य प्रकाशरूपार्थे प्रसिद्धः प्रकृते तदर्थमाह-आलोकनमिति । चाक्षुषज्ञानमित्यर्थः । आलोकनमित्यस्यैव विवरणम्- वनितेत्यादि । वृत्तौ 'प्रतिपादकस्येति । वक्तुरित्यर्थः ॥ ९ ॥


१. ननु त्रितयमिति न्यूनम् ; ध्वन्यतेऽनेनेति चतुर्थस्यापि सम्भवात् इति चेन्न; ध्वननमित्यनेन संग्रहीतुं शक्यत्वात् ।

२. 'नन्वित्यादि 'दर्शयती'त्यन्तलोचनग्रन्थस्यायमभिप्रायः-'वाच्यवाचकत. द्भावः प्रधानं प्रथमोपादीयमानत्वात्' इत्यनुमानेन व्यङ्गयार्थस्य प्राक्प्रतिपादितं प्राधान्य दुरुपपादमित्याशङ्का । तदुत्तरञ्च-नेदमनुमानं समोचीन, हेतोविरुद्धत्वात् । साध्य- व्यापकीभूताभावप्रतियोगी च हेतुविरुद्धः । असाधारणो वा । साध्यमत्र प्राधान्यम् । तद्वयापकीभूताभावः प्रथमोपादीयमानत्वाभावः । स चौपेये प्रधाने भवति, न तूपाये प्रथमोपादीयमाने । तत्प्रतियोगित्वं प्रथमोपादीयमानत्वे हेताविति भवत्यस्मिन् हेतौ विरोधो दोषः । अतो दुष्टत्वात् तदनुमानमुपेक्षाईमिति ।