पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/१६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
९८
सटीकलोचनोपेतध्वन्यालोके


भ्या महाकवित्वलाभो महाकवीनां, न वाच्यवाचकरचनामात्रेण ।


लोचनम्

प्यमाणं सहस्रशाखीभवति । यथोक्तमस्मत्परमगुरुभिः श्रीमदुत्पलपादैः-

तैस्तैरप्युपयाचितैरुपनतस्तन्व्याः स्थितोऽप्यन्तिके
कान्तो लोकसमान एवमपरिज्ञातो न रन्तुं यथा ।
लोकस्यैष तथानवेक्षितगुणः स्वात्मापि विश्वेश्वरो
नैवालं निजवैभवाय तदियं तत्प्रत्यभिज्ञोदिता ॥ इति ॥

 तेन ज्ञातस्यापि विशेषतो निरूपणमनुसन्धानात्मकमत्र प्रत्यभिज्ञानं, न तु तदेवे- दमित्येतावन्मात्रम् । महाकवेरिति । यो महाकविरहं भूयासमित्याशास्ते । एवं व्यङ्गयस्यार्थस्य व्यञ्जकस्य शब्दस्य च प्राधान्यं वदता व्यङ्ग्यव्याकभावस्यापि

बालप्रिया

 तैस्तैरिति । सामान्यतोऽवगतस्यापीश्वरस्य विशेषतोऽवगममन्तरेण न फ- लपर्यन्तीभावलाभ इत्यर्थप्रदर्शनपरोऽयं श्लोकः। तेस्तैरुपयाचितैः दूतीसम्प्रेषणात्म- वृत्तान्तनिवेदनादिभिरुपचारपूर्वकयाचनैः । 'उपनतोऽपीति योजना । न केवलमुपनतः, तन्व्या अन्तिके स्थितोऽपि । एवमपरिज्ञातः यो मया लोकोत्तरसौन्दर्यादिगुणविशि- टत्वेन श्रुतस्तत एव रागातिशयेन प्रार्थितश्च स कान्तोऽयमिति विशेषेणाज्ञातः । अत एव लोकसमानः जनसाधारणत्वं प्राप्तः । कान्तः तन्वीकामनाविषयः पुरुषः । यथा रन्तुं रमयितुं तन्वीमानन्दयितुमिति यावत् । न प्रभवतीति शेषः । एवं दृष्टा- न्तं प्रदर्य प्रकृतमाह-लोकस्येत्यादि । 'लोकस्यात्मेति सम्बन्धः । अनवेतिते- ति । लोकेन विशेषतोऽज्ञातेत्यर्थः । यस्मात्सामान्यतो ज्ञातेऽपि विशेषाज्ञानसम्भवः, तस्मात् स्वतः स्फुरितयोरपि शब्दार्थयोः महाकविना युक्तमेव प्रत्यभिज्ञानकरणमिति भावः । तर्हि कोऽत्र प्रत्यभिज्ञापदार्थ इत्यत उक्तफलतया तत्स्वरूपमाह-तेनेत्यादि । महाकवित्वनिर्वृत्तौ शिक्षानहत्वान्नियोगायोगमाशङ्कय व्याचष्टे-यो महेत्यादि । महा- कविरित्यस्य महाकवित्वप्रकारकाशंसाविषय इत्यर्थ इति भावः । वृत्तौ 'महाकवेस्तौ शब्दार्थों सहृदयैः प्रत्यभिज्ञेयावि विति 'तावेव शब्दाथौं महाकवेः प्रत्यभिज्ञेयाविति च योजना बोध्या । महाकविना प्रत्यभिज्ञेयावित्यस्योपपादकम्-'व्यंग्ये त्यादि । 'सुप्रयुक्ता- भ्यां विशेषतो निरूप्य प्रयुक्ताभ्याम्। 'महाकवीनामि त्यस्य उक्तोऽर्थः । वृत्तिग्रन्थेन व्यजकस्यापि प्रधान्यं दर्शितमत आह-एवमित्यादि। उपपन्नमिति। ध्वनिरिति


१. महाकवित्वप्रकारकेच्छावानित्यर्थः ।

२. व्यञ्जनाव्यापारस्यापीत्यर्थः ।