वेति दर्शयति-
सोऽर्थस्तव्यक्ति सामर्थ्ययोगी शब्दश्च कश्चन । |
तावेव शब्दार्थों महाकवेः प्रत्यभिज्ञेयौ । व्यायव्यञ्जकाभ्यामेव सुप्रयुक्ता-
लोचनम्
त्यर्हार्थे कृत्यः, सर्वो हि तथा यतते इतीयता प्राधान्ये लोकसिद्धत्वं प्रमाणमुक्तम् । नियोगार्थेन च कृत्येन शिक्षाक्रम उक्तः । प्रत्यभिज्ञेयशब्देनेदमाह-
'काव्यं तु जातु जायेत कस्यचित्प्रतिभावतः'
इति नयेन यद्यपि स्वयमस्यैतत्परिस्फुरति, तथापीदमित्थमिति- विशेषतो निरू-
बालप्रिया
दि । 'स्वरूपविषयभेदेने'ति च पाठः । कथं प्राधान्यं दर्शितमित्यतो, व्याचष्टे-अर्हा- र्थ इत्यादि । कृत्यः कृत्यप्रत्ययः । सर्वः सकलस्सहृदयः। “तथा हीति सम्बन्धः। अर्हत्वेन होत्यर्थः। यतते तथाविधशब्दार्थयोर्बुभुत्सया प्रवर्तते । फलितमाह-इती. त्यादि । इयता सहृदयप्रत्यभिज्ञेयत्ववचनेन । प्राधान्ये व्यंग्यस्य प्राधान्ये विषये । लोकेति। सहृदयलोकेत्यर्थः। सहृदयैः सोऽर्थः तथाविधः शब्दश्च महाकवेस्तौ शब्दा- थौं यत्नतः प्रत्यभिज्ञेयाविति सम्बन्धः । 'ताविरति प्रत्यभिज्ञाकारप्रदर्शकः । एतौ महाकवेः तौ तादृशौ शब्दार्थावित्याकारकसहृदयप्रत्यभिज्ञानावित्यर्थ इति भावः । अथ तौ शब्दार्थो महाकवेः महाकविना प्रत्यभिज्ञेयावित्यर्थान्तरं च ग्राह्यमित्याह- नियोगेत्यादि । अस्मिन् पक्षे 'तावि' त्यस्य पूर्वोक्तावित्यर्थः । पूर्वार्धञ्च भिन्नं वा. क्यम् । शिक्षाक्रमः कविशिक्षाप्रकारः। शब्दार्थप्रत्यभिज्ञानस्य फलमाह-प्रत्यभि- शेयेत्यादि । काव्यमिति । तुशब्दः शास्त्रादितो विशेषद्योतकः । जातु कदाचिदे: व । कस्यचित् न सर्वस्य । कोऽसावित्यत्राह-प्रतिभावत इति। स्वयं स्वय- मेव । अस्य कवेः। एतत् काव्यम्। इदमिति । इदमित्थं कर्तव्यमिति निरूपणप्र. कारः । निरूप्यमाणमिति । निरूप्य क्रियमाणमित्यर्थः । तदित्यनुषज्यते । सह- नेति । सहस्रधा भवतीत्यर्थः । विच्छित्तिप्रकाराणामनन्तत्वादिति भावः । विशेषनि-, रूपणस्य कर्तव्यता व्यतिरेकोदाहरणेन समर्थयते-यथोक्तमिति । प्रत्यभिज्ञाशास्त्रान्त इति शेषः ।
१. प्रत्यभिज्ञारूपधात्वर्थान्वयपक्षे महाकवेरित्यत्र "कृत्यानां कर्तरि वा ( २. ३. ५१.) इति कर्तरि षष्ठी।
२. "अर्हे कृत्यतृचश्व" ( ३. ३. १६९. ) इत्येकवाक्यतापन्नेन "अचो यत्" ( ३. १. ९५.) इत्यनेन कृत्यसंज्ञको यत्प्रत्ययः । १३