पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/१३६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७९
प्रथमोद्योतः


लोचनम्

स्थितिः, तन्मयीभवनदशायां तु रतेरेवास्वाद्यतेति शृङ्गारतैव भाति पौर्वापर्यविवेकाव- धारणेन 'दूराकर्षणमोहमन्त्र इव मे तन्नानि याते श्रुतिम्' इत्यादौ। तदसौ ऋद्वारा- भास एव । तदा भावाभासश्चित्तवृत्तेः प्रशम एव प्रकान्ताया हृदयमाहादयति यतो विशेषेण, तत एव तत्संगृहीतोऽपि पृथग्गणितोऽसौ। यथा-

एकस्मिन् शयने परामुखतया वीतोत्तरं ताम्यतो-
रन्योन्यस्य हृदि स्थितेऽप्यनुनये संरक्षतोर्गौरवम् ।
दंपत्योः शनकैरपाङ्गवलनामिश्रीभवच्चक्षुषो.
र्भग्नो मानकलिः सहासरभसव्यावृत्तकण्ठग्रहम् ॥

 इत्यत्रेर्ष्यारोपात्मनो मानस्य प्रशमः । न चायं रसादिरर्थः 'पुत्रस्ते जातः' इत्यतो यथा हर्षो जायते तथा । नापि लक्षणया। अपि तु सहृदयस्य हृदयसंवादबलाद्विभा-

बालप्रिया

दशायां विभावाभासज्ञानद्वारा स्थाय्याभासनिश्चयेनेत्यर्थः । इयं स्थितिः रतेर्हास्यरूप- त्वाध्यवसायः । कुत इत्यत्राह-तन्मयीत्यादि । पौर्वापर्येति । विभावरत्याद्योर्यत् पौर्वापर्यंतद्विवेकस्यावधीरणेनाभावेन । 'इत्यादौ भाती'त्यन्वयः । श्लोकोऽयं द्वितीयो- द्योते वक्ष्यते । अत्रादौ सहृदयानां सीताविषयकरावणरतेस्तन्मयीभावेनास्वाद्यतेति श्रृ. ङ्कारचर्वणैव, पश्चात्तद्रतेरनुचितालम्बनकत्वज्ञानेन तद्विषयकहासौद्बोधाद्धास्यचर्वणा - श्रृङ्गारचर्वणा च तदाभासचर्वणवेत्याशयेनोपसंहरति-तदिति । तदङ्गं भावाभास इति । श्रृङ्गारादिरसाभासस्याङ्गभूतो भावो भावाभास इत्यर्थः । भावशब्देनैव भावप्र- शमस्यापि ग्रहणसम्भवात् किमिति पृथक् तद्ग्रहणमित्यत आह-चित्तवृत्तरित्यादि। प्रकान्तायाः रसं व्यञ्जयितुमारब्धायाः । 'प्रशम एव यतो विशेषेणाह्लादयति, ततो- ऽसौ पृथंग्गणित' इत्यन्वयः । तत्संगृहीतोऽपि भावशब्देन बोधितोऽपि । असो भावप्रशमः ।

 एकस्मिन्निति । एकस्मिन् शयने सख्या कथंचिदेकशयनं नीतयोः । मानस्यानु- वृत्त्या या पराङ्मुखता तया। वीतमपगतमुत्तरं शयनानन्तरकृत्यं यत्र, तत्तथा। ताभ्य- तोः सन्तप्यतोः । अन्योन्यस्येति । गौरवभङ्गभयेन हदि स्थितमप्यनुनयमकुर्वतोः । अपाङ्गयोर्बलनाद्विवर्तनात् । मानकलिः प्रणयरोषकलहः । हासेन रभसेन वेगेन, यस्या- वृत्तं व्यावर्तनं तेन च सहितः कण्ठग्रहो यत्र, तत्तथा ।योजयति-इत्यत्रेति । ईर्ष्यारूपो रोषस्तदात्मनः । क्रोधेति च पाठः । प्रशम इति। प्रतीयत इति शेषः। 'वाच्यसामर्थ्या- क्षिप्तः प्रकाशत' इत्यनेन दर्शितं विभावादिव्यंग्यत्वं रसादेः साधयिष्यन् आदौ तस्य । तात्पर्यशक्तिगम्यत्वं निषेधति-न चेत्यादि तथेत्यन्तेन । अन्न काव्यादिति शेषः यथा 'पुत्रस्ते जात' इत्यादिवाक्यं प्रियरूपार्थप्रतिपादनमुखेन श्रोतुर्हर्षमुत्पादयति,


 १.अमरुक.,