पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/१२९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७२
सटीकलोचनोपेतध्वन्यालोके


लोचनम्

विधिः । न तु निमन्त्रणरूपोऽप्रवृत्तप्रवर्तनास्वभावः सौभाग्याभिमानखण्डनाप्रसङ्गात् । अत एव रात्र्यन्धेति समुचितसमयसंभाव्यमानविकाराकुलितत्वं ध्वनितम् । भावतद- भावयोश्च साक्षाद्विरोधाद्वाच्याद्वयङ्ग्यस्य स्फुटमेवान्यत्वम् ।

 यत्त्वाह भट्टनायकः—'अहमित्यभिनयविशेषेणात्मदशावेदनाच्छाब्दमेतदपी' ति । तत्राहमिति शब्दस्य तावन्नायं साक्षादर्थः ; काक्वादिसहायस्य च तावति ध्वननमेव व्यापार इति ध्वनेर्भूषणमेतत् । अत्तेति प्रयत्नेनानिभृतसंभोगपरिहारः । अथ यद्यपि भवान्मदनशरासारदीर्यमाणहृदय उपेक्षितुं न युक्तः, तथापि किं करोमि पापो दिवसको- ऽयमनुचितत्वात्कुत्सितोऽयमित्यर्थः । प्राकृते पुनपुंसकयोरनियमः । न च सर्वथा त्वामुपेक्षे, यतोऽत्रैवाहं तत्प्रलोकय नान्यतोऽहं गच्छामि, तदन्योन्यवदनावलोकनवि-

बालप्रिया

अभ्युपगतः शयनाभ्युपगमः कृतः। फलितमाह-इतीत्यादि । विधिरि- ति । स च पान्थगतनिषेधशानिवृत्त्यर्थः । न त्वित्यत्र हेतुमाह-सौभाग्येति । विधेनिमन्त्रणरूपत्वे स्वानुरागप्रकाशनादिति भावः । व्याख्यातेऽर्थे प्रमाणत्वेन पदान्त- रमवतारयति-अत एवेत्यादि। अत एव यतो विधिर्निषेधाभावरूपस्तत एव । समुचितेति । समुचिते सम्भोगयोग्ये समये रात्रौ भविष्यतीत्यात्मना सम्भाव्य- मानो योऽर्थः तन्निमित्तका ये विकराः। यद्वा-भविष्यन्तीति सम्भाव्यमाना ये वि- काराः तैराकुलितत्वमित्यर्थः । तद्धननेनात्मनः सौभाग्याभिमानः ख्यापित इति भावः । भावेति । व्यंग्यशयन क्रियाविधिलक्षणस्य भावस्य वाच्यतदभावस्य चेत्यर्थः ।

 अहमित्यादि । अभिनयविशेषसहितेनाहमिति पदेनेत्यर्थः । आत्मदशेति । स्वीयकामावस्थेत्यर्थः । एतदपि निषेधद्वारा अभ्युपगमनमपि । अपिशब्दोऽर्थान्तर- समुच्चये । शाब्दं शब्दाभिधेयम् । प्रतिवक्ति-तत्रेत्यादि । अयमिति । उक्त इत्यर्थः । काक्वादीति । आदिपदेनाभिनयो गृह्यते । तावति उक्तार्थे । वाच्यार्थं सिद्धवत्कृ- त्योक्तव्यंग्यशेषतयाऽवान्तरवाक्याभिप्रायं विवृणोति-प्रयत्नेनेत्यादि । विधेय इति शेषः। अनुरागातिरेकेण सम्भावितो य आवयोरनिभृतः सम्भोगः तस्य परिहारः। पूर्व- व्याख्यातरात्र्यन्धपदार्थाभिप्रायेणाह-भवानिति । उपेक्षितुं न युक्त इत्यनेन स्वस्या- भिलाषोऽपि प्रदर्शितः । अनुचितत्वादिति । सम्भोगायोग्यत्वादित्यर्थः । 'दिअस- अमि त्यस्य कथं प्रथमान्ततया व्याख्यानमित्यत आह–प्राकृत इति । न चोपेक्षे


 १. 'कुत्सिते' (पा. सू., ५. ३. ७४.) इति सूत्रेणेति बोध्यम् ।

 २. 'ते हि नो दिवसा गताः' ( उत्तर., १. ११.) 'दिवसाः परिणामरमणीयाः' ( शाकुन्त., १. ३.) इत्यादौ दिवसशब्दस्य पुंस्त्वेन निर्देशात् गाथायां 'दिअस' इति नपुंसकत्वेन निर्देशः कथमित्याशकां परिहर्तुमाह-'प्राकृत' इत्यादि । यद्यपि 'वा तु क्लीबे दिवसवासरौ' इति कोशे दिवसशब्दस्य क्लीवतोक्ता,,तथापि तथा प्रयोगेऽप्र-