पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/१२८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७३
प्रथमोद्योतः


क्वचिद्वाच्ये विधिरूपेऽनुभयरूपो यथा-
वच्च मह व्विअ एक्के होन्तु णीसासरोइअव्वाई ।
मा तुज्ज वि तीअ विणा दक्खिण्णहअस्स जाअन्तु|


लोचनम्

नीदेन दिनं तावदतिवाहयाव इत्यर्थः । प्रतिपन्नमात्रायां च रात्राबन्धीभूतो मदीयायां शय्यायां मा श्लिषः, अपि तु निभृतनिभृतमेवात्ताभिधाननिकटकण्टकनिद्रान्वेषणपूर्वक- मितीयदत्र ध्वन्यते ।

व्रज ममैवैकस्या भवन्तु निःश्वासरोदितव्यानि ।
मा तवापि तया विना दाक्षिण्यहतस्य जनिषत ॥

 अत्र व्रजेति विधिः । न प्रमादादेव नायिकान्तरसंगमनं तव, अपि तु गाढानुरागात् , येनान्याङ्मुखरागः गोत्रस्खलनादि च, केवलं पूर्वकृतानुपालनात्मना दाक्षिण्येनैकरूप-

बालप्रिया

इति सम्बन्धः। प्रतिपन्नमात्रायामिति । ईषदर्थे मात्राशब्दः । अन्धीभूतो मा श्लिष इति । अन्धीभूतत्वेन श्लेषणं निषिध्यते, न तु श्लेषणमात्रम् । अत्तेति । अत्त इत्यभिधानं यस्य सः। 'दत्तावधाने ति पाठे स्वभावत एव सावधान इत्यर्थः। कण्टक श्वश्रूरूपः । स्वाभिमतविरोधित्वेनानिष्टकारित्वात्कण्टकत्वेनोक्तिः। पूर्वकमिति । शय्यां प्राप्नुहीति शेषः । इयदिति । उक्तमित्यर्थः ।

 विधिरिति । वाच्य इति शेषः । व्यंग्यमाह-न प्रमादादित्यादि । त्वमेक- रूपताभिमानेन अहमेकरूप इत्यभिमानेन । अत्र मद्विषये । 'स्थित इति यत् तत् केवलं दाक्षिण्येनैवेति सम्बन्धः । केवलैवकाराभ्यामनुरागरूपहेतोर्व्यवच्छेदः । अत एवाह-पूर्वेति। पूर्वकृतेन पूर्वकर्मणा अदृष्टेन हेतुना यदनुपालनं मत्पालनम् । यद्वा-पूर्वकृतं यदाक्षिण्यं तस्यानुपालनमविच्छेदेन पालनं तदात्मना दाक्षिण्येन। फलि-


ऽप्रयुक्ततैव जागर्तीति भावः।

 १। 'माश्लिष' इत्येव पाठस्साधीयान् ; आलिङ्गन एव श्लिषश्च्ले क्सादेशविधानात् , अत्र च शय्यया सहालिङ्गनाभावात् । तथैव च कौमुद्यामप्युदाहृतं दीक्षितैः-'अश्लि- क्षत् कन्यां देवदत्तः' 'समश्लिषज्जतुकाष्ठम्' इति ।

 २. प्रेमप्रणयरागाणामुत्तरोत्तरतारतम्यमवाप्तानामित्थं रूपाणि शास्त्रेषूपवर्णितानि- तत्र प्रेम नाम 'अयं मम अहमस्य' इत्याकारका पक्षपातविशेषः । प्रणयः-सैवावलीत कनादिना प्रकर्ष नीतमपराधसहस्रणाप्यविचालितं वा ।राग:- -परिचयातिशयेन तत्र गाढत्यं निश्शेषमुत्सारितगुर्वादिपारवश्यकत्वमितिबोध्यम् । विशेषतस्त्वेषां भेदाः प्रेमरसायने द्रष्टव्याः । रञ्जनक्षमः प्रणय एव ।

                  १०