पृष्ठम्:धर्मशर्माभ्युदयम्.pdf/९१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

८२ काव्यमाला। विघटयन्नखिलेन्द्रियपाटव भृशमुरीकृतधर्मदिगाश्रयः । वपुषि बिभ्रदसौ तपसा मह कृशमिन शमिन समता दधौ ॥१८॥ मृगदृशामिह सीत्कृतकम्पिताधरपुटस्फुटदन्तसमद्युत । विदधिरे नवकुन्दलता दलत्सुमनसो मनसो धृतिमङ्गिनाम् ॥ १९ ॥ मुरभिपत्रवत कुसुमेप्वभून्मरुबकस्य जनो विगतस्पृह । सुभगरूपजुषो मृगचक्षुष प्रथितमान्यतमान्यगुणेष्विव ॥ ६ ॥ इह हि रोध्ररजासि यशासि वा विशदभासि जगज्जयशालिन । विदधिरे न मनोभवभूपते सममनन्तमनन्तरितं भुवा ॥ ६१ ॥ करणबन्धविवर्तनसाक्षिणी समधिगम्य निशा सुरतक्षमा. । तपसि कामिगणस्तरुणीजनैररमतारमतामसमानसै ॥ १२ ॥ अथ दिदृक्षुममु रमणीयतामृतुगणस्य सम समुपेयुषः । अभिदधे जिनमित्यमराधिपो विनयतो नयतोषितभूत्रयम् ॥ १३ ॥ ऋतुकदम्बकमायतीव व. श्रवणगोचरता युगपद्गतै । भ्रमरकोकिलहसकलापिना रसकलै सकलैरपि नि स्वनै. ॥ ६४ ॥ सेना सुराणाममना मितारम्भवत्ययाना मधुना च येन । सेना सुराणा मम नामितारं भवत्ययानामधुना चयेन ॥ १५ ॥ प्रभावितानेकलतागताया प्रभाविताने कलता गता या। प्रभावितानेकलतागताया सा स्त्री मधौ कि स्पृहणीयपुण्या ॥ ६ ॥ वीक्ष्याङ्गना सत्तिलकान्सरागा विलासमुद्रायतनेऽत्र कान्ते । गुणास्त्वयीवाभवदस्तशत्राविला समुद्रायतनेत्रकान्ते ॥ १७ ॥ पदप्रहारै पुरुषेण दध्रे मद समुद्यत्तरुणीहतेन । रुत तदश्रावि वने पिकीनामद समुद्यत्तरुणीह तेन ॥ ६८ ॥ १ प्रथित-मान्यतम अन्यतमगुणेषु २ अमनस्का ३ मनोविरहान्मितारम्भवती ४ गमनरहिता ५ कामदेवेन सह इ काम ६ स्तुतिमुखरा ७ नामिता-अरम् ८ अयाना भाग्याना चयेन ९. अवलोकितबहुविधवल्लीवृक्षविस्तारा १. मनोज्ञता- ११ प्रभी इता-न १२. हे इकलत, इ कामस्तद्वत्कलता मनोज्ञता यस्य तत्सोधनम्. १३ अप्राप्तशुभविधि १४ भूमि १५. समुद्रा आयतनेत्रकान्ते १६ समुत्-यत् तरुणि-(वृक्ष)-इह