पृष्ठम्:धर्मशर्माभ्युदयम्.pdf/९२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१२ सर्गः धर्मशर्मा-युदयम् ।

त्वामद्य केकिध्वनितापदेशात्सुराजमानेन स मानवेन । धनागमः स्तौत्यमृतोदयार्थी सुराजमानेनस मा नवेन ॥ १९ ॥ कलापि नो मन्दरसानुगास्ते पयोदलेशोपहिता हिमांशोः । कलापिनो मन्दरसानुगास्ते संभाव्यते तेन शरत्प्रवृत्तिः ॥ ७० ॥ गुणलतेव धनुर्भ्रमरावली शरदि तामरस गमिताधिकम् । ततिरतोऽप्सरसा कुसुमेषुणा शरदितामरसङ्गमिताधिकम् ॥ ७१ ॥ इति वचनमुदार भाषमाणे मुदार प्रशमितवृजिनस्य स्वर्गिनाथे जिनस्य । मतिरिह धनगाना रन्तुमासीन्नगाना ततिषु कुसुमलीना वीक्ष्य पालीमलीनाम् ॥ ७२ ॥ इति महाकविश्रीहरिचन्द्रविरचिते धर्मशर्माभ्युदये महाकाव्य एकादश सर्ग । द्वादश सर्ग । दिदृक्षया काननसपदा पुरादथायमिक्ष्वाकुपतिर्विनिर्ययौ । विधीयतेऽन्योऽप्यनुयायिना गुणै समाहित कि न तथाविध प्रभु ॥१॥ बभूव यत्पुष्पवतीमृतुक्षणे वनस्थलीं सेवितुमुत्सुको जन । अचिन्तितात्मक्रमविप्लवो महान्मनोनुराग खलु तत्र कारणम् ॥ २ ॥ विकासिपुष्पद्रुणि कानने जनाः प्रयातुमीपुः सह कामिनीगणै । स्मरस्य पञ्चापि न पुष्पमार्गणा भवन्ति सह्याः किमसंख्यता गताः ॥ ३ ॥ बभौ तदारक्तमलक्तद्रवैर्वधूजनस्याङ्घ्रिसरोरुहद्वयम् । पथि स्थलाम्भोरुहकोटिकण्टकक्षतक्षरच्छोणितसचयैरिव ॥ ४॥ गतागतेषु स्खलित वितन्वता नितम्बभारेण सम जडात्मना । भुजौ सुवृत्तावपि कङ्कणक्वणैः किलाङ्गनाना कलह प्रचक्रतु ॥५॥, हे मनुष्यस्वामिन् २ हे सुराजम शोभना राज्ञा मा यस्य तत्सबोधनम् ३ स्त- वेन ४ मन्दर-सानु-गा-आस्ते ५. मन्द-रस-अनुगाते ६ शरदिता बाणख. ण्डिता अतएव अमरसङ्गमिता देवमग प्राप्ता अधिक जले ७ घन निरन्तर गान यस्यास्ताम्