पृष्ठम्:धर्मशर्माभ्युदयम्.pdf/९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२ काव्यमाला । नृपतेः प्रश्नः । “महासेननृपतिमहिष्या धर्मनाथोऽवतरिष्यति, तत्से. वार्थै यूयं यात' इति महेन्द्रेणादिष्टा वयमागताः, स्वयं महेन्द्रोऽपि समागमिष्यति" इत्यादि तद्वाक्यवर्णनम् । तासां नृपमहिषीसमीपे ग- मनवर्णनम् । तत्कृतं नृपमहिष्याः सेवनवर्णनम् । नृपमहिष्या स्व- प्नविलोकनवर्णनम् । प्रातरुत्थाय महिष्या नृपसमीपे स्वप्ने विलोकित सर्वं कथितम् , नृपेणाप्यतिसतुष्टेन 'तीर्थकरस्तव पुत्रतामेष्यति' इति तत्फल कथितमित्यादिवर्णनम् । महिषीगर्भे धर्मनाथोऽवतीर्ण इति वर्णनम् । ६ सर्गः-सगर्भाया महिष्या वर्णनम् । माघशुक्लत्रयोदश्या पुष्यनक्षत्रे धर्मनाथस्य जन्माभूदिति वर्णनम् । इन्द्रादिकृतस्य महीपतिकृतस्य च तज्जन्मोत्सवस्य वर्णनम् । ७ सर्गः–जातवेश्मनि स्थिताया महिन्या अङ्के मायानिर्मितमेकं शिशु निधाय धर्मनाथभपहृत्य शची शक्राय समर्पितवती, शक्रोऽपि त- मादाय सुरगजमारुह्य देवसेनासमेतो व्योमवर्त्मना सुमेरुपर्वत ज- गामेत्यादि वर्णनम् । सुमेरुपर्वतवर्णनम् । तत्र देवसेनासनिवेशवर्णन गजाश्वादिवर्णनं च। ८ सर्ग:--सुमेरौ मणिसिंहासने शको धर्मनाथमुपवेशितवानित्यादिवर्ण- नम्। धर्मनाथाभिषेकोपक्रमवर्णनम् । क्षीरसमुद्रवर्णनम् । धर्मनाथा- भिषेकवर्णनम्। इन्द्रादिदेवकृता तत्स्तुति । अभिषेकानन्तर पुनरपि धर्मनाथ तन्मातुर्नृपमहिष्या अङ्के प्रापय्य देवा. स्वानि धामानि जन्मुरिति वर्णनम् । ९ सर्गः-धर्मनाथस्य बाल्यवर्णनं यौवनवर्णन यौवराज्यप्राप्तिवर्णनं च। विदर्भाधिनाथेन प्रतापराजेन स्वदुहितु स्वयवरे धर्मनाथानयनार्थ प्रेषितस्य दूतस्यागमनवर्णनम् । पित्राज्ञया ससैन्यस्य धर्मनाथस्य विदर्भान्प्रति गमनवर्णनम् । मार्गे प्राप्ताया गङ्गाया वर्णनम् । १० सर्ग:-विन्ध्याचलवर्णनम् । ११ सर्गः-षड्ऋतुवर्णनम् ।