पृष्ठम्:धर्मशर्माभ्युदयम्.pdf/७२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

९ सर्ग.] धर्मशर्माभ्युदयम् । त्वमसि स खलु दीपः केवलालोकहेतु शलभसुलभलीला लप्स्यते यत्र काम ॥ १४ ॥ अलमलममृतेनास्वादित त्वद्वचश्चे- त्किममरतरुलक्ष्म्या त्वय्यपि प्रार्थ्यमाने । जिन जगदतमस्क कुर्वति त्वत्प्रबोधे किमहिमरुचिना वा कार्यमत्रेन्दुना वा ॥ ५५ ॥ दुरितमुदित पाकोद्रेकात्पुराकृतकर्मणा झटिति घटयत्यर्हद्भक्ते. स्वशक्तिविपर्ययम् । उपजलतरुच्छायाछन्ने जने जरठीभव. द्युमणिकिरणैर्मीष्मो ग्रीष्मो न कि शिशिरायते ॥ ५६ ॥ इत्याराध्य त्रिभुवनगुरु तत्र जन्माभिषेके भक्त्या मातु पुनरपि तमुत्सङ्गभाजं विधाय । भूयो भूयस्तदमलगुणग्रामवार्ताभिरुद्य- ल्लोमानस्ते त्रिदशपतय स्वानि धामानि जग्मु ॥ १७ ॥ इति महाकविश्रीहरिचन्द्रविरचिते धर्मशर्माभ्युदये महाकाव्येऽष्टम सर्ग । नवम सर्ग । सिक्त सुरैरित्थमुपेत्य विस्फुरज्जंटालबालोऽथ स नन्दनद्रुम । छाया दधत्काञ्चनसुन्दरी नवा सुखाय वप्गु. सुतरामजायत ॥ १ ॥ चित्र किमेतज्जिनयामिनीपतिर्यथा यथा वृद्धिमनश्वरीमगात । सीमानमुल्लङ्घय तथा तथाखिल प्रमोदवार्धिर्जगदप्यपूरयत् ॥ २ ॥ लप्स्यामहे तीर्णभवार्णव पुनर्विवेकिनं कैनमितीव त प्रभुम् । बाल्याङ्गसस्कारविशेषसत्किया किमप्यहपूविकया सिषेविरे ॥ ३ ॥ लोकस्त्रिलोक्या सकलोऽपि सप्रभ प्रभावसभावितमेकमर्भकम् । ज्योतिर्ग्रहाणामिव मण्डलो ध्रुवं ध्रुव समन्तादनुवर्तते स्म तम् ॥ ४ ॥ १ अटाला जटायुक्ता बाला केशा यस्य, (पक्षे) जटा मूलम् , आलचालमावाल २ काचन अनिर्वचनीयाम् , (पक्षे) काञ्चनवन्मुन्दरीम ३ पितु, मालाकागदेश्व