पृष्ठम्:धर्मशर्माभ्युदयम्.pdf/७१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला । सकलविदकलङ्क. क्षीणसंसारशङ्क- श्चकितजनशरण्य. कस्त्रिलोक्या त्वदन्यः ॥ ४८ ॥ न खलु तदपि चित्र यत्त्वयोदेष्यतापि प्रथममयमकारि प्राप्तपुण्यो जनोऽत्र । प्रतिशिखरि वनानि ग्रीष्ममध्येऽपि कुर्या- किमु न जलदकाल. प्रोल्लसत्पल्लवानि ॥ ४९॥ तव वृषमधिरूढो योऽपि तस्य धुलोक स खलु कियति दूरे यो जनेनापि लभ्यः । यदि चतुरगमाप्त प्राप्तवास्तदुराप तदपि जिन जनोऽय जन्मकान्तारतीरम् ॥१०॥ सर इव मरुमार्गे स्वच्छतोय तृषार्तै. स्तरुरिव रविरश्मिव्याकुलैरत्र सान्द्र । निधिरिव चिरदु स्थै शर्मणेऽस्माभिरेक कथमपि भवभीतैर्नाथ दृष्टोऽमि दिष्टया ।। ५१।। स्वगुणगरिमदौ स्थ्य रोदसी रन्ध्ररोषा- द्वयतिषजति जिनेश त्वद्यशश्चन्द्रगौरम् । कया कयममन्दा मन्दिरोद्योतशक्ति प्रकटयति घटान्तर्वर्तिरूप प्रदीप. ।। ५२ ॥ गुणपरिकरमुच्चै कुर्वनैव त्वयैते क्षणि उषदोषा रोषिताम्तद्विपक्षा । अथ न कथममीषा नेक्ष्यते त्वद्भयेन त्वदनुगतजनेऽपि प्रायश प्रीतिलेश ॥ १३ ॥ इह पिहितपदार्थे सर्वथैकान्तवल्ग- न्निबिडतमतमोभिर्विश्ववेश्मन्यकस्मात् । १ प धर्मम् , (पक्षे) वृषभम् २ य जनेन, (पक्षे) योजनेन क्रोशचतुष्टयात्मकेन ३ चतुरग चारित्रभारम् , (पक्षे) तुरगम्