पृष्ठम्:धर्मशर्माभ्युदयम्.pdf/५४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

६ सर्गः] धर्मशर्माभ्युदयम् । उत्फुल्ललोचनरुचा निचयैर्विचित्र सचित्रयन्निव दिवस्पतिरारोह ॥ ३४ ॥ ऐरावणश्चटुलकर्णझलझलाभि- रुड्डीनगण्डमधुपावलिरावभासे ।। यात्रोद्यत पथि जिनस्य पदे पदेऽसौ निर्मुच्यमान इव पापलवैस्त्रुटद्भिः ॥ ३५ ॥ गच्छन्ननल्पतरकल्पतरुप्रसून- पात्रीपवित्रकरकिकरचक्रवालै । सोढु तदीयविरहार्तिमशक्नुवद्भि क्रीडावनैरिव रराज स पृष्ठलग्नै. ॥ २६ ॥ अन्योन्यघट्टनरणन्मणिभूषणाग्रा वाचालितोच्चकुचकुम्भभरा सुराणाम् । उल्लासिलास्यरसपेशलकास्यताल. लीलाश्रिता इव रसाल्ललना प्रचेलु ॥ ३७ ।। गायन्नटन्नमदनुव्रजदप्यमन्द वृन्द तदा दिविषदा मिलदासमन्तात् । देव पृथक्पृथगुणात्तविशेषभावै- स्तुल्य सहस्रनयनो नयनर्ददर्श ॥ ३८॥ उद्दामरागरससागरमग्नहूहू- हाहादिकिनरतरङ्गितगीतसक्त । सत्रासहेतुषु नदत्स्वपि तूर्यलक्षे- ष्वन्तर्न शीतकिरण हरिणो बबाधे ॥ ३९ ॥ क्रूर कृतान्तमहिषन्तरणे स्तुरगा- द्योति. कुरङ्गरिपव. (१) पवनस्य चैण । १ ‘गजकर्णगतिझलझलेत्युच्यते' इति कामन्दकीयनीतिसारटीका (१।४५)