पृष्ठम्:धर्मशर्माभ्युदयम्.pdf/५२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१ सर्गः] १३ धर्मशर्माभ्युदयम् । नोर्वीशमौलिमणिमालिकयाज्ञयैव लक्ष्म्या पुनर्नियतमात्मसमीचकार ॥ २१ ॥ ते गन्धवारिविरजीकृतराजवर्त्म- न्यभ्राददभ्रघृणयो मणयो निपेतु । यैस्तत्क्षणोप्तसुकृतद्रुमबीजपुञ्ज- निर्यत्प्ररोहनिकराकृतिरन्वकारि ॥ २२ ॥ उत्क्षिप्तकेतुपटपल्लवितान्तरिक्ष चिक्षेप तीक्ष्णरुचिरत्र पुरे न पादान् । मन्ये पतत्रिदशपुष्परसप्रवाह- सदोहपिच्छिलपथच्छलपातभीत ॥ २३ ॥ संवाहयन्निव मनाक्चिरबन्धमुक्ता- स्त्वङ्गद्विसस्थुलपदा प्रतिपक्षवन्दी । मन्दारदाममधुसीकरभारवाही मन्दोऽतिमन्दगतिरत्र बभूव वायु ॥ २४ ॥ तौर्यों ध्वनि प्रतिगृह लयशालि नृत्त गीत च चारुमधुग नवत्तोरणश्री । इत्याधनेकपरमोत्सवकेलिपात्र द्रागेकगोत्रमिव भूत्रितय बभूव ॥ २५ ॥ शुभ्रं ऽभवद भूदपकण्टका भू- र्भक्त्येव भानुरभिगम्याचिर्बभूव । आरोग्यवानजनि जानपदोऽपि लोक- स्तत्कि न यत्सुखनिमित्तमभूत्तदानीम् ॥ २६ ॥ स्नाता इवातिशयशालिनि पुण्यतीर्थे तस्मिन्रजोव्यपगमात्सहसा प्रसन्ना । एष्यन्निजप्रणयिना त्रिदिवात्तदानीं सयोगयोग्यसमया ककुभो बभूवुः ॥ २७ ॥