पृष्ठम्:धर्मशर्माभ्युदयम्.pdf/१७२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२१ सर्गः

धर्मशर्माभ्युदयम् ।

दृप्यन्मोहचमूं विजित्य विजयस्तम्भायमानं तदा । सम्भेदाचलमाससाद विजयश्रीर्ध‌र्मनाथः प्रभुः ॥ १८३ ॥ तत्रासाद्य सितांशुभोगसुमगा चैत्रे चतुर्थी तिथि यामिन्या स नवोत्तरैर्यमवता साकं शतैरष्टभि । सार्धद्वादशवर्षलक्षपरमारम्यायुष प्रक्षये ध्यानध्वस्तसमस्तकर्मनिगलो जातस्तदानीं क्षणात् ।। १८४ ॥ अभजदथ विचित्रैर्वाक्प्रसूनोपचारैः प्रभुरिह हरिचन्द्राराधितो मोक्षलक्ष्मीम् । तदनु तदनुयायी प्राप्तपर्यन्तपूजो- पचितसुकृतराशिः स्व पद नाकिलोक. ।। १८५ ॥ इति महाकविश्रीहरिचन्द्रविरचिते धर्मशर्माभ्युदये महाकाव्य एकविंश सर्ग ।

प्रन्थकर्तु प्रशस्ति । श्रीमानमेयमहिमास्ति स नोमकानां वशः समस्तजगतीवलयावतसः । हस्तावलम्बनमवाप्य यमुल्लसन्ती वृद्धापि न स्खलति दुर्गपथेषु लक्ष्मी ॥ १ ॥ मुक्ताफलस्थितिरलंकृतिषु प्रसिद्ध- स्तत्रार्द्रदेव इति निर्मलमूर्तिरासीत् । कायस्थ एव निरवद्यगुणग्रह स- नेकोऽपि यः कुलमशेषमलचकार ॥ २ ॥ लावण्याम्बुनिधिः कलाकुलगृह सौभाग्यसद्भाग्ययोः क्रीडावेश्म विलासवासवलभी भूषास्पद संपदाम् । शौचाचारविवेकविस्मयमही प्राणप्रिया शूलिनः शर्वाणीव पतिव्रता प्रणयिनी रथ्येति तस्याभवत् ॥ ३ ॥ अर्हत्पदाम्भोरुहचञ्चरीकस्तयोः सुतः श्रीहरिचन्द्र आसीत् । गुरुप्रसादादमला बभूवुः सारस्वते स्रोतसि यस्य वाचः ॥ ४ ॥