पृष्ठम्:धर्मशर्माभ्युदयम्.pdf/१६७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

११८ काव्यमाला।

धर्मात्ममितिगुप्तिभ्यामनुप्रेक्षानुचिन्तनात् । असावुदेति चारित्रादरिषद्कजयादपि ॥ ११९ ॥ किमन्यविस्तरैरेतद्रहृस्य जिनशासने । आश्रवः संसृतेर्मूलं मोक्षमूल तु सस्वर ।। १२०॥ सवरो विवृतः सैष संप्रति प्रतिपाद्यते । जर्जरीकृतकर्माय पञ्जरा निर्जरा मया ॥ १२१॥ दुर्जर निर्जरत्यात्मा यया कर्म शुभाशुभम् । निर्जरा सा द्विधा ज्ञेया सकामाकामभेदतः ॥ १२२ ॥ सा सकामा स्मृता जैनैर्या व्रतोपक्रमै कृता । अकामा स्वविपाकेन यथा श्वभ्रादिवासिनाम् ॥ १२३ ॥ सागारमनगार च जैनेरुक्तं व्रतं द्विधा । अणुमहाव्रतभेदेन तयोः सागारमुच्यते ॥ १२४ ॥ अणुव्रतानि पञ्च स्युस्त्रिप्रकार गुणव्रतम् । शिक्षाव्रतानि चत्वारि सागाराणा जिनागमे ॥ १२५ ॥ सम्यक्त्व भूमिरेषा यन्न सिध्यन्ति तदुज्झिता । दूरोत्सारितससारार्त्यातपा व्रतपादपाः ॥ १२६ ॥ घर्माप्तगुरुतत्त्वाना श्रद्धान यत्सुनिर्मलम् । शङ्कादिदोषनिर्मुक्त सम्यक्त्व तन्निगद्यते ॥ १२७ ।। तत्र धर्म स एवाप्तैर्य प्रोक्तो दशलक्षण । आप्तास्त एव ये दोषैरष्टादशभिरुज्झिता ॥१२८॥ गुरुः स एव यो ग्रन्थैर्मुक्तो बारिवान्तरै । तत्त्व तदेव जीवादि यदुक्त सर्वदर्शिभिः ॥ १२९ ॥ शङ्काकाङ्क्षा विचिकित्सा मूढदृष्टि प्रशंसनम् । संस्तवश्चेत्यतीचारा, सम्यग्दृष्टेरुदाहृताः ॥ १३० ।। अदेवे देवबुद्धिर्या गुरुधीरगुरावपि । अतत्त्वे तत्त्वबुद्धिश्च तन्मिथ्यात्वं विलक्षणम् ॥ १३१ ॥