पृष्ठम्:धर्मशर्माभ्युदयम्.pdf/१५९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१५० काव्यमाला।

चतुथी दशभिर्युक्ता पञ्चमी त्रिभिरुल्बणै. । पष्ठी पञ्चोनलक्षण सप्तमी पञ्चभिक्लैिः ॥ १५ ॥ एव नरकलक्षाणामशीतिश्चतुरुत्तरा । विज्ञेया तासु दुःखाना न सख्या निपुणैरपि ॥ १६ ॥ पडङ्गलास्त्रयो हस्ताः सप्त चापानि विग्रहे । इयत्येव प्रमा ज्ञेया प्राणिना प्रथमक्षितौ ॥ १७ ॥ द्वितीयादिष्वतोऽन्यासु द्विगुणद्विगुणोदय । उत्सेध स्याद्धरित्रीषु यावत्पञ्चधनु शती ॥ १८ ॥ प्रमरढु खसतानमन्तातुमिवाक्षमम् । वर्धयत्यङ्गमेतेषामधोऽधो धरणीप्वत ॥ १२ ॥ एक आये द्वितीये च त्रयः सप्त तृतीयक। चतुर्थे पञ्चमे च स्युर्दश सप्तदश क्रमात् ॥ २० ॥ षष्ठे द्वाविशतिर्जया त्रयस्त्रिशच्च सप्तमे । आयुर्दु खापवरके नरके सागरोपमा ॥ २१ ॥ आये वर्षसहस्राणि दशायुरधम तत । पूर्वस्मिन्यद्यदुत्कृष्ट निकृष्ट तत्तदग्रिमे ॥ २२ ॥ कदाचिदपि नैतेषा विधिरेधयतीहितम् । दुखिनामनभिप्रेतभिवायुर्वर्धयत्यसौ ॥ २३ ॥ रौद्रध्यानानुबन्धेन बह्वारम्भपरिग्रहाः । तत्रापपादिका जीवा जायन्ते दु खखानय ॥ २४ ॥ तेषामालिङ्गिताङ्गाना सतत दु खसपदा । न कदापि कृतेष्येव सुखश्रीर्मुखमीक्षते ॥ २५ ॥ साश्रुणी लोचने वाणी गद्गदा विहल मन । स्यात्तदेषा कथं दु खं वर्णयन्ति दयालव ॥ २६ ॥ सूतवद्भिन्नमप्यङ्गं यन्मिलत्यापदे पुन । दुखाकरोत्ति मच्चित्तं तेन वार्तापि तादृशाम् ॥ २७ ॥१ पारदवत्.