पृष्ठम्:धर्मशर्माभ्युदयम्.pdf/१३७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१२८ काव्यमाला।

जनेषु गायत्सु जगौ प्रतिखनैर्ननर्त नृत्यत्स्वपि लोलकेतुभिः । अवाप्य सहर्षमिवोत्सवे प्रभोर्मुदा न किं किं विदधे तदा पुरम् ॥१३॥ इति व्यतिक्रम्य दिनानि कानिचिन्महोत्सवेऽस्मिारठीभवत्यपि । स पुत्रमापृच्छ्य तपश्चिकीर्षया ययौ महासेनमहीपतिवनम् ॥ १४ ॥ अथ श्लथीभूतविमोहबन्धनोऽप्यसौ वियोगापितुरन्वतप्यत । अवेत्य संसारगतिं तत स्वयं प्रबुद्धमार्गः समचिन्तयत्प्रजाः ॥ १५ ॥ प्रजा प्रशस्या खलु ता स्मरन्त्यमु जिनेश्वर या प्रविधूतकल्मषम् । स्तुम कथ तत्सुकृतानि चिन्तन चकार यासा स्वयमेव स प्रभु ॥१६॥ क्वचिन्न चक्रे करवालकर्षणं न चापराग विदधे कमप्यसौ । स कोमलेनैव करेण लालयन्वशीचकारैकवधूमिव क्षितिम् ॥ १७ ॥ गुणार्णव नम्रनरामरोरगस्फुरत्किरीटोचयचुम्बितक्रमम् । पति तमासाद्य मही महीयसी बभूव लोकद्वितयादपि ध्रुवम् ॥ १८ ॥ न चापमृत्युनं च रोगसंचयो बभूव दुर्भिक्षभय न च कचित् । महोदये शासति तत्र मेदिनीं ननन्दरानन्दजुपश्चिर प्रजा ॥ १९ ॥ ववौ समीर सुखहेतुरगिना हिमादिवोष्णादपि नाभवद्भयम् । प्रभो प्रभावात्सकलेऽपि भूतले स कामवर्षी जलदोऽप्यजायत ॥६॥ ध्रुव भुजस्तम्भनियन्त्रिता गुणैरनेन गाढ करिणीकृतांचला। कुतोऽन्यथा भूभृदुपायनच्छलात्समाययु काममदोद्धता गजा ।। ६१ अजस्रमासीद्धनसपदागमो न वारिसपत्तिरदृश्यत कचित् । महौजसि त्रातरि सर्वत. सता सदा पैराभूतिरभूदिहाद्भुतम् ।। ६२ ॥ न नीरसत्त्वं सलिलाशयाहते दधावध पङ्कजमेव सद्गुणान् । अभूदधर्मद्विपि तत्र राजनि त्रिलोचने यद्यजिनानुरागिता ॥ ६३ ॥१ करवाल खट्ग , (पक्षे) करौ हस्तौ वाला केशा २ चापे धनुषि रागम् , (पक्षे) अपराग विरक्तम् ३ हस्तेन बलिना च ४. पूज्या ५ भूमि कसपत्नाप्ति , (पक्षे) मेघसपदागम ७ जलसपत्ति , (पक्षे) अरिसपत्ति शत्रुबाहुल्यम् ८. परिभव , (पक्षे) उत्कृष्टमैश्वर्यम् ९ नीरम्य सत्त्व विद्यमानता, (पक्षे) नीरसस्य भाव . १० जिनेऽनुरागाभाव , (पक्षे) अजिन गजादि चर्म ६ अघि