पृष्ठम्:धर्मशर्माभ्युदयम्.pdf/११९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला।

आयाति प्रबलतरप्रतापपात्रे नेत्राणा दिवसकृति त्वयीव मैत्रीम् । सतापः प्रकटतरो भवत्विदानी शत्रूणामिव तपनाश्मना गणेषु ॥ ३७ ॥ इत्थ स त्रिदशननस्य मन्दराद्रिक्षुब्धाम्भोनिनदसमा निशम्य वाणीम् । उत्तस्थौ सितवसनोमिरम्यतल्पाढुग्धाब्धे पवनतरनितादिवेन्दुः ॥ ३८ ॥ उत्तिष्ठन्नुदयगिरेरिवेन्दुरस्माद्देवेन्द्रान्मुकुलितपाणिपङ्कजाग्रात् । सोऽद्राक्षीदथ नमतो नगोपमेभ्य पीठे-यो मुवि सरितामिव प्रवाहान् ३९ कारुण्यद्रविणनिधे निधेहि दृष्टि सेवार्थी भवतु जनश्चिरात्कृतार्थ । यचिन्ताम्यधिकफलान्यसौ ददाना ता चिन्तामणिगणनामपाकरोति ॥४०॥ इत्युच्चैनिंगदति वेत्रिणामधीशे श्रीधर्म समुचितविन्नरामरेन्द्रान् । भृदृष्टिस्मितवचसामसौ प्रसाद प्रत्येकं सदसि यथार्हमाचचक्षेठ १(कुलकम्) नि.शेष भुवनविभुविभानकृत्य कृत्वाय कृतसमयानुरूपवेष । आरुह्य द्विरदमुद्रग्रदानमुच्चै प्रत्यग्र मुकृतमिवाथ सप्रतस्थे ॥ ४२ ॥ भास्वन्तं द्युतिरिव कीर्तिवद्गुणाढ्य सोत्माह मुभटमिवोत्युका जयश्री । दुर्धर्षा भुवनविसर्पिणी दुगपा त सेना त्रिभुवननाथमन्वियाय ॥ ४३ ॥ अक्षिप्तप्रलयनटोद्भटाहास प्रेडनि पटुपटहारवै प्रयाणे । एकत्रोच्छलितरजश्छलेन सर्वा समक्ता इव ककुभो भयाभूवु ॥४४॥ मेण्ठेन द्विपमपनीतबन्धमन्यं प्रेक्ष्यैतत्प्रमथनमासलाभिलाष । प्रश्चोतद्द्विगुणमदाम्बुधारमुच्चैरालानढुवरमिभो हठादभाड्डीत् ॥ ४५ ॥ तिष्ठन्ती मृदुलभुजगरागमूर्धन्युद्वोढु दृढपदमक्षमा क्षमा ते । कर्णान्ते ऽभिहित इतीव भगदूतैर्नागेन्द्र पथि पदमन्थर जगाम ॥ ४६ ॥ भ्रश्यन्त्याश्चरणभरात्करावलम्ब ये दातु भुव इव लम्बमानहस्ता । कर्णान्तध्वनदलिकोपकूणिताक्षास्ते जग्मु पथि पुरतोऽस्य वारणेन्द्रा ॥४७॥ सचेलु प्रचलितकर्णताललीलावातोमिव्यतिकरशीतलै. समन्तात् । सघट्टभ्रमभरमूर्छिता इवाशा सिञ्चन्त. पृथुकरसीकरै करीन्द्राः ॥ ४८ ।। अश्रान्त श्रिय इव चारुचामराणा य पश्चाद्विचरति लोलवालधीनाम् । कामद्भिर्भुवमभितो जवेन वाहै स व्यक्त कथमिव लड्वितो न वायु. ॥४९॥१ हस्तिपकेन २ पृथ्वी