पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यवहारकाण्डम् “ऋणादानादिदायविभागान्तानां देयनिबन्धनत्वं, साहसा : दत्ता मदीयं शतं सुवर्णानां अमुकस्मिन्देशे काले साक्षिणि दिपञ्चकस्य दण्डनिबन्धनत्वमिति द्विरुत्थानतेत्यर्थः” । सवि. ५१ च गृहीत्वा, न ददातीति तद्धस्तेन लेखनम् । पुनरपि प्रत्यर्थिनमाहूय तत्समक्षं तथैव लेखनं भाषा । तत्र प्रत्य- थिनाऽहमेतस्य धारयामीत्युक्ते न कस्यापि दण्ड इति । तदिदं संप्रतिपत्तिरूपमुत्तरं न दण्डपादत्वेन गण्यते । सवि. ५१ नाऽहमेतस्य धारयामीति मिथ्योत्तरम् । मया गृहीत मासीत्तत्पुनः परावृत्य दत्तमिति कारणोत्तरम् । अस्मि- नर्थन पूर्वमहमभियुक्तस्तत्र पराजितो मयेति प्राङ्- न्यायोत्तरम् । त्रिविवेऽप्यस्मिन्नुत्तरे अर्थप्रत्यार्थभ्यां प्रतिभूर्देयः, अहमेतस्मिन्पराजित इदं द्रव्यं दास्यामीति । क्रिया स्वमतसाधकानां साक्षिपत्रभोगशपथादीनां प्रदर्श- नम् । ततोऽच्यवने तस्य जय इति । अष्टभ्यः पादेभ्यो इनन्तरं अपराधी दण्ड्यते, इत्येते दण्डस्य पादाः । यदाह याज्ञवल्क्यः – 'निह्नवे भावितं दद्याद्धनं राज्ञे च तत्समम् । मिथ्याभियोगी द्विगुणमभियोगाद्धनं वहेत्' इति ॥ (यास्मृ. २(११) नैकनयनः नैकानि बहूनि नयनस्थानी- यानि राजाऽमात्यपुरोहितपर्षदाख्यानि दर्शनसाधनानि यस्मिन् । नीटी. विष्णु: व्य॑वहारो द्विरुत्थानः । व्यवहारकारणद्वयं कथितम् । महाभारतम् व्यवहारलक्षणप्रयोजनस्वरूपाणि भीष्म उवाच - शेणु कौरव्य यो दण्डो व्यवहारो यथा च सः । यस्मिन् हि सर्वमायत्तं स दण्ड इह केवलः ॥ धर्मसंख्या महाराज व्यवहार इतीप्यते । तस्य लोपः कथं न स्याल्लोकेष्वव हितात्मनः || इत्येवं व्यवहारस्य व्यवहारत्वमिष्यते । अपि चैतत्पुरा राजन मनुना प्रोक्तमादितः ॥ सुप्रणीतेन दण्डेन प्रियाप्रियसमात्मना । प्रजा रक्षति यः सम्यग्धर्म एव स केवलः ॥ दण्डे त्रिवर्गः सततं सुप्रणीते प्रवर्तते । दैवं हि परमो दण्डो रूपतोऽग्निरिवोत्थितः || नीलोत्पलदलश्यामश्चतुर्दष्टश्चतुर्भुजः । अपान्नैकनयनः शकुकर्णोर्ध्वरोमवान् || द्विजिह्वस्ताम्रास्यो मृगराजतनुच्छदः । एतद्रूपं विभयु॒ग्रं दण्डो नित्यं दुराधरः ।। चतस्रो दंष्ट्रा इव प्राणिनां वधसाधनानि यत्र सः । तथा हि, केचित् मानभङ्गेन, केचिद्धनहरणेन, केचि दङ्गवैकल्येन, केचित्प्राणव्यापादनेन च वध्यन्तेऽतम्ता- न्येच तद्दंष्ट्राः । चत्वारो भुजाः अर्थादानकर्तारी यस् सः । तथा हि प्रजाभ्यः सामन्तेभ्यश्च करादानं, अनृता- दर्थिनोऽर्थ्यमानद्रव्याद् द्विगुणधनादानं, अनृतात्प्रत्यार्थ नस्तत्समं द्रव्यादानं, धनवतः कदर्याद्विप्रात्सर्वस्वादानं चेति । आवेदनं, भाषा, संप्रतिपत्तिः, मिथ्योत्तरं, कारणोत्तरं, प्राङ्न्यायः, प्रतिभूः, क्रियाफलसिद्धिश्चेत्यष्टौ पादाः । एतैर्हि निमित्तैर्दण्डश्चरति नान्यथेत्येतेषां पाद- त्वम् । तत्र आवेदनं - अर्थिना सभ्यान्प्रति गत्वा, देव- (१) सवि. ५१, ४५०. विष्णुसंहितायां नोपलभ्यते । (२) भा.१२।१२११८-११. (३) भा. १२/१२१/१४-१६. दण्डप्रशंसा | व्यवहारोत्पत्तिः अंसिर्विशसनो धर्मस्तीक्ष्णवर्मा दुराधरः । श्रीगर्भो विजयः शास्ता व्यवहारः सनातनः ॥ शास्त्रं ब्राह्मणमन्त्राच शास्ता प्राग्वदतां वरः । धर्मपालोऽक्षरो देवः सत्यगो नित्यगोऽग्रजः ॥ असङ्गो रुद्रतनयो मनुर्ज्येष्ठः शिवङ्करः । नामान्येतानि दण्डस्य कीर्तितानि युधिष्ठिर || ईश्वरः पुरुषः प्राणः सत्त्वं चित्तं प्रजापतिः । भूतात्मा जीव इत्येवं नामभिः प्रोच्यतेऽष्ट्रभिः ॥ भर्तृप्रत्यय उत्पन्नो व्यवहारस्तथाऽपरः । तस्माद्यः सहितो दृष्टो भर्तृप्रत्ययलक्षणः ॥ व्यवहारस्तु वेदात्मा वेदप्रत्यय उच्यते । मौलश्च नरशार्दूल शास्त्रोक्तश्च तथाऽपरः ।। उक्तो यश्चापि दण्डोऽसौ भर्तृप्रत्ययलक्षणः । ज्ञेयो नः स नरेन्द्रस्थो दण्डः प्रत्यय एव च । दण्डप्रत्ययदृष्टोऽपि व्यवहारात्मकः स्मृतः । (१) भा.१२।१२१।२०-२२. (२) भा. १२/१२११४१. (३) भा. १२/१२१/५०-६०.