पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

धर्म कोशः व्यवहारकाण्डम् व्यवहारस्वरूपम् व्यवहारधर्मोत्पत्तिः । व्यवह।रोत्पत्तिः । व्यवहारप्रयोजनम् । व्यवहारलक्षणम्। व्यवहारपदनिरुक्तिः । निबन्धकाराणां व्यवहारलक्षणम् । ब्रह्म वा इदमग्र आसीदेकमेव, तदेकर सन्न | देतो व्यभवत् । तच्छ्रेयोरूपमत्यसृजत क्षत्रं, यान्ये- तानि देवत्रा क्षत्राणीन्द्रो वरुणः सोमो रुद्रः पर्जन्यो यमो मृत्युरीशान इति । तस्मात् क्षत्रा- त्परं नास्ति । तस्माद् ब्राह्मणः क्षत्रियमधस्ता- दुपास्ते राजसूये । क्षत्र एव तद्यशो दधाति । सैषा क्ष॒त्रस्य योनिर्यद् ब्रह्म । तस्माद्यद्यपि राजा परमतां गच्छति, ब्रह्मैवान्तत उपनिश्रयति स्वां योनिम् । स चतुरः सृष्ट्वाऽपि वर्णान्नैव व्यभवदुत्वात् क्षत्र स्थानियताशङ्कया, तच्छ्रेयोरूपमयसृजत किं तद्धमें सृटं क्षत्रस्य क्षत्रं क्षत्रस्यापि नियन्तृ । उग्रादप्युग्रम् । यद्धम यो धर्मस्तस्मात् क्षत्रस्यापि निय- न्तृत्वाद्धर्मात्परं नास्ति | तेन हि नियम्यन्ते सर्वे । तत् कथमिति । उच्यते । अथो अप्यवलीयान् दुर्बलतरो, बलीयांसमात्मनो बलवत्तरमप्याशंसते कामयते जेतुं, धर्मेण बलेन । यथा लोक राज्ञा सर्वबलवत्तमेनापि कुटु विक एवं, तस्मात्सिद्धं धर्मस्य सर्वबलवत्तरत्वात्सर्व नियन्तृत्वम् । यो वै स धर्मा व्यवहारलक्षगी लोकिके- ४ य उ एन् ँ हिनस्ति, स्वा स योनिमृच्छति, सर्व्यवयिमाणः, सत्यं वै तत्सत्यमिति यथाशास्त्रार्थता, स पापीयान् भवति, यथा श्रेया हि सित्वा ॥ स नैव व्यभवत्स विशमसृजत, यान्येतानि देव- जातानि गणश आख्यायन्ते, वसवो रुद्रा आदित्या विश्वेदेवा मरुत इति ॥ स नैव व्यभवत्स शौद्रं वर्णमसृजत पूषणमियं वै पूपे सर्व पुष्यति यदिदं किं च ॥ स नैव व्यभवत् तच्छ्रेयो- रूपमत्यसृजत धर्म, तदेतत्क्षत्रस्य क्ष॒त्रं यद्धर्मस्तस्मा द्धर्मात्परं नास्त्यथो अवलीयान्वलीया समाश सते धर्मेण, यथा राज्ञैवं, यो वै स धर्मः सत्यं वै तत्तस्मात्सत्यं वदन्तमाहुर्धर्मं वदतीति धर्मं वा वदन्त ँसत्यं वदतीत्येतद्धयेवैतदुभयं भवति ॥ तदेतद् ब्रह्म क्षत्रं विट् शूद्रस्तदग्मिनैव देवेषु ब्रह्मा- भवद् ब्राह्मणो मनुष्येषु, क्षत्रियेण क्षत्रियो, वैश्येन वेश्यः, शूद्रेण शूद्रस्तस्मादमावेव देवेषु लोकमि- च्छन्ते, ब्राह्मणे मनुष्येष्वेताभ्या हि रूपाभ्यां ब्रह्माभवत् । एवानुठीयमानो धर्मनामा भवति । शास्त्रार्थत्वेन ज्ञाय मानस्तु सत्यं भवति । यस्मादेवं तस्मात्सत्वं यथाशास्त्रं वदन्तं व्यवहारकाल आहुः समीपस्था उभयविवेकज्ञा धर्मे बदतीति प्रसिद्धं लौकिकं न्यायं वदतीति । तथा विपर्ययेण धर्म वा लौकिकं व्यवहारं वदन्तमाहुः, सत्यं वदति शास्त्रादनपेतं वदतीति । एतद्यदुक्तमुभयं ज्ञाय- मानमनुष्टीयमानं चैतद्धर्म एव भवति । तस्मात्स धर्मा ज्ञानानुष्ठानलक्षणः शास्त्रज्ञानितरां सर्वानिव नियमयति । तस्मात्स क्षत्रस्यापि क्षेत्रमतस्तदभिमानोऽविद्वांस्तद्विशेषा- नुष्ठानाय ब्रहाक्षत्रविशुद्रनिमित्तविशेषमभिमन्यते । तानि च निसर्गत एवं कर्माधिकार निमित्तानि || * वृशांभा. (१) शा. १४|४|२|२३.२७; बु. १/४/११-१५. वेदाः व्यवहारमत्पित्तिः गौतमः व्यवहारोत्पत्तिः 'द्विरुत्थानतो द्विगतिः । व्यवहार इत्यनुपज्यते । तत्र निबन्धनकारेणोक्तम्-

  • प्रकृतोपयोगि एवं भाष्यमत्रोद्भुतम् ।

(१) सवि. ५१. गौतमधर्मसूत्रे नोपलो ।