सामग्री पर जाएँ

पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/६७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिशिष्टानि सभा

वेदाः सभासभ्यसभाभाषणलिङ्गानि राजव्यवहारसभा च सोमो धेनुं सोमो अर्वन्तमाशुं सोमो वीरं कर्मण्यं ददाति । सादन्यं विद्ध्यं सभेयं पितृश्रवणं यो ददाशदस्मै || यो यजमानो ददाशत् सोमाय हविर्लक्षणान्यन्नानि दद्यात् तस्मै यजमानाय सोमो धेनुं सवत्सां दोग्ध्रीं गां ददाति । तथाशुं शीघ्रगामिनमर्वन्तमश्वं ददाति । प्रय- च्छति । तथा वीरं पुत्रमस्मै यजमानाय ददाति । कीदृशं पुत्रम् | कर्मण्यं लौकिककर्मसु कुशलं सदन्यम् । सदनं गृहम् । तदर्हम् । गृहकार्यकुशलमित्यर्थः । विदथ्यम् । विदन्त्येषु देवानिति विदथा यज्ञाः । तदर्हम् । दर्शपूर्ण- मासादियागानुष्ठानपर मित्यर्थः । सभेयं सभायां साधुम् । संकलशास्त्राभिज्ञमित्यर्थः । पितृश्रवणं पिता श्रूयते प्रख्यायते येन पुत्रेण तादृशम् । ऋसा. केविर्बुध्नं परि मर्मृज्यते धीः सा देवताता समितिर्बभूव । कषिः क्रान्तदर्शी धीः सर्वेषां धारकः सोऽग्निर्बुघ्नं सर्वस्योदकस्य मूलभूतमन्तरिक्षं परि मर्मृज्यते । परितो मार्ष्टि । स्वतेजसाच्छादयति । तस्याः सा देवताता देवेन देवनशीलेनाग्निना तता विस्तारिता दीप्तिरस्माभिः स्तुता सती समितिर्बभूव । तेजसां संहतिर्भवति । ऋसा. मुँहा चरन्ती मनुषो न योषा सभावती विद- ध्येव सं वाक् । मेघपङ्क्तिर्विद्युच्चोभे दृष्टान्तेन विशेष्येते | गुहा निगूढा (१) ऋसं. १९९१।२०; शुमा.३४ | २१; मैसं. ४|१४|१; तैना. २२८/३११; भाश्रौ. २|१९|२२; शाओौ. ३।१६।४, ६|१०|३; माश्रौ. ५|२|१०४. (२) ऋसं. ११९५/८. (३) ऋसं. १११६७१३. गुहायां वान्तरिक्षे चरन्ती । तत्र दृष्टान्तः । मनुषो न योषा मनुष्यस्य परिवृढादेर्महिषीवत् । सा यथा सुवेपान्त:- पुर एव मध्ये चरति तद्वत् । किं सर्वदैवमिति नेत्याह । सभावती । सभा जनसंघः । तद्वती । वर्षकाल आवि- र्भवन्तीत्यर्थः । तत्र दृष्टान्तः । विदथ्या वागिव । विदथो यज्ञः । तदर्हतीति विदथ्या प्रैषस्तोत्रादिरूपा वाक् । सा यथा यज्ञसभां प्राप्याविर्भवति तद्वत् । यद्वा । विदथ्या वेदनार्हा विवदमानयोर्वाक् । सा यथा सभावती तद्वत् । सैवरूपा येषु मिम्यक्ष ते मरुतो देवयजनमागच्छन्त्वि- त्यर्थः । सभेयो विप्रो भरते मती धना । सभेयः सभायां साधुः, विप्रो मेधावी, मती मत्या, धना हविर्लक्षणानि धनानि, भरते बिभर्ति संपादयतीति यावत् । ऋसा. से रेवान्याति प्रथमो रथेन वसुदावा विदथेषु प्रशस्तःX । स यजमानो रेवान् धनवान् प्रथमः प्रथितः प्रख्यातः वसुदावा वसूनां धनानां दाता सन् प्रशस्तः सर्वैः प्रश- स्यमानो विदथेषु वेद्येषु लब्धव्येषु गृहेषु रथेन वाहनेन याति । गच्छति । ऋसा. गोमाँ अमेऽविमाँ अश्वी यज्ञो नृवत्सखा सद मिदप्रमृष्यः । इळावाँ एपो असुर प्रजावान्दीर्घो रयिः पृथुबुध्नः सभावान् ॥ हे असुर बलवन् हे अग्ने एप मदीयोऽयं यज्ञो नृ- बत्सखा । नरः कर्मणां नेतारोऽध्वर्य्यादयस्तद्वन्तः सखायो- ऽनुष्ठातारो यजमाना यस्य स तथोक्तः । सदमित्सदैवा- x विदधशब्दः सभावाची इति झिमर आह (१) ऋसं. २|२४|१३. (२) ऋसं. २१२७११: (३) ऋसं. ४/२/५; तैसं. १९६/६/४, ३१११११११; मैसं. १९४०३, १/४/८; कासं. ५/६, ३२२६; माश्री. ११४:३११९३ शाश्री. ४।१२।१०; आपश्री. ४।१६।१३. ऋसा.