पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/२७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९६ व्यबहारकाण्डम् देशनामजातिभिर्विशेषणैः कथयति । तदा एतैः प्रत्येकं पूर्वमुक्तैः कारणैरिह हीनोऽसौ व्यवहाराद् भ्रष्ट इति । धर्मस्थो धर्माधिकरणस्थः प्राविवाको निर्दिशेन्निश्चितं ब्रूयाजितोऽयमिति । यथैव विपक्षबाधकै प्रमाणावृत्त्या परा- जय एवं स्वपक्षसाधनाभावादपि । अभावनिश्चयश्च पुनः पुनरवसरेऽनुपन्यासात्कारणान्तरस्य चाऽनुपन्यासे अभावादिति (?) ज्ञातार इति तृन्नन्तमेव । तत्रै 'मा' इति द्वितीयान्तं युज्यते । ‘...खलर्थतनामिति षष्ठीनिषेधात् । हीनं तमिति द्वितीयान्तः पाठः । इतिशब्दः प्रकारार्थों द्रष्टव्यः । एभिरुक्तैः प्रकारैरन्यैश्चैवंविधैर्हीनं तन्निर्दिशेत् । यदा तु वाक्यार्थपरामर्शः, तदा हीनोऽसाविति पाठः । वाक्यार्थस्य कर्मत्वात् द्वितीयाया अभावः । एते पराजय- हेतवः । न त्वाकारेङ्गितादिवद्व्यभिचारिणः । यो हि पुनः पुनर्विचारावसरे न संनिधीयते, संनिहितो नोत्तरं प्रतिवक्ति, न तत्र निश्चितमिदं भवति नास्य जयहेतु रस्तीति ? | यदि च सर्वदैवानुत्तरवादिनं न पराजयेद्राजा ततो व्यवस्थाभङ्ग आपद्यते । पौर्वापर्यानवबोधस्त्विनि- तादिवद्द्रष्टव्यः । यः सर्वकालं वाग्मी प्रगल्भं प्रतिपत्ति- मान् तस्येङ्गितादयोऽन्यथाभवन्तः पराजयहेतौ प्रमाणा- न्तरेणानिश्चितेऽपि लिङ्गदर्शनस्थानीया उपोद्वलका भवन्ति । मेधा. (२) साक्षिण इति । साक्षिणोऽत्र मम विद्यन्ते इत्युक्त्वा ब्रूहि तान् इत्युक्तो यस्मान्न ब्रूयात्तं पूर्वोक्तैरेभिः पराजयकारणैः धर्मनिर्णयप्रवृत्तः प्राड्विचाको जितो. ऽयमिति कथयेत् ।

  • गोरा.

(३) मेत्युक्त्वेति छान्दसः सन्धिः । तं वादिनम् । हीनं पराभियोगप्राप्तम् । मवि. (४) धर्मस्थो विचारकः हीनं संभावितहानिकं परा जित इति भङ्गानन्यथासिद्धेरिति निपुणेनावधारणे स पराजितोऽव्यवहार्य इत्यर्थः । व्यचि. ३२ (५) तमपीति अपिशव्दादधमर्णमपि । Xमच (६) यश्च ज्ञातार: साक्षिणो मदुक्तेऽर्थे सन्तीति

  • स्मृच., नन्द, भाच. गोरागतम् । ममु. गोरागतं मवि

गतं च । x शेषं गोरागतं मविगतं च । १ कं प्रमाण २ क्षे. ३ तत्रेदमिति ४ चारणा: ५ बाध. सभायामुक्त्वा के ते वदेत्युक्तो न वदेत्तान् । अत्र मा मां ज्ञातारः यथार्थवाग्रहमिति जानानाः साक्षिण इति यावत् । द्वितीयैकवचनान्तस्यास्मच्छब्दस्य 'त्वामौ द्विती- याया:' (व्यासू. ८|१||२३) इत्यनेन मामित्यस्प मा इत्यादेशः । न तु मे इति षष्ठयन्तमेतत् । 'न लोका- व्ययनिष्ठाखलर्थतनाम्' इति तन्निषेधात् । तेन मेति सन्धिरपि समाहित इति मेधातिथिः । आचार्यास्तु व्याक- रणाधिकरणे सन्धिकरणमत्रापशब्द इति पूर्वपक्षप्रसं- गेन वदन्तः षष्ठयन्ततामेवास्य मन्यन्ते । मे सन्तीति संबन्धान्न ' तृनाम्' इति संबन्धप्रयुक्तषष्ठीप्रतिषेधाव- काश इति तेषाममिसन्धिः | सन्ति ज्ञातार इत्युक्त्वेति कल्पतरुलिखितपाठस्त्वनाकर एवाचार्यमेधातिथिभ्याम- भृतत्वादिति ध्येयम् । सिद्धान्ते त्वाचार्याणां छान्दसत्व- मत्र समाघिरभिमतः । एतैः कारणैर्व्यस्तैः समस्तैर्वा वादिप्रतिवादिनोरन्यतरं हीनं निर्दिशेदित्यर्थः । हीन- वादितया दण्डार्हतामात्रं न प्रकृतार्थहा निरिति प्रमाद- परिहारार्थमेवायं प्रपञ्चः । 'छलं' निरस्य' इत्यादि- वचनात् । व्यप्र. ७४-७५. अब्रुवतो ऽभियोक्त्रादेर्दण्ट्यत्वम् अभियोक्ता न चेद्ब्रयाद् बध्यो दण्ड्यश्च धर्मतः । न चेत् त्रिपक्षात् प्रब्रूयात् धर्म प्रति पराजितः ॥ (१) अभियोक्ताऽर्थी राजान्तिकं च पुरुषमाहूय यदि व्यवहारपदं न कथयति तदा निष्प्रयोजनाद् बध्यो दण्डयश्च | दण्डबन्धने दण्डपरिमाणे च गुणवत्तां, प्रत्य- थिन आह्वानेन च हानिमपेक्ष्य, कल्पनीयानि अतस्तद- हरेवार्थिना विवदितव्यम् । प्रत्यर्थी तु न चेत् त्रिपक्षाद् ब्रूयादित्यर्थस्तदा नामौ दण्ड्यो बन्धयितव्यो वा । किं तीयता कालेनोत्तरे सत्यपराजित एव । धर्म प्रति धर्मत एवायं पराजयो न छलमित्यर्थः । त्रिपक्षादिति पात्रादिपु द्रष्टव्यस्तेनेकाराभावः । अर्थतत्त्वमस्य श्लोकस्यास्माभिः प्राङ्निरूपितम् । मेधा. (१) मस्मृ. ८/५८; व्यक. ३३-३४ योक्ता (योगे); स्मृसा. १२२ पू.; व्यचि. ३१ प्रभूयात् (ब्यास); व्यति. नारदः; स्मृचि.४१ ड्यश्च (ड्यः स) यात् (युः); ब्यसौ.३२; प्रका. ३० प्र (तत्) नारदः; समु. २४ प्रकावत्. १ राज्ञान्तिकं.