पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/२७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वादहानि: (३) दुष्टस्येति शेषः । Xस्मृच.४९ (४) अन्तर्गतं मनो बुद्धिरूपेण परिणतम् । ममु. विविधानि वादहानिकारणानि अंदेशं यश्च दिशति निर्दिश्यापह्नुते च यः । यश्चाधरोत्तरानर्थान्विगीतान्नावबुध्यते || (१) उक्तमेवाधमणेऽपह्नुवाने धनिना राजा ज्ञाप- यितव्यः । ईदृशी च ज्ञापना कर्तव्या-अस्मिन्देशे- ऽस्मिन्काल इदं धनमियद्वैतेन मत्सकाशाद् गृहीतम् । सच पृष्टो भावयति नैतस्मिन्देशेऽहमभवं योऽनेन र्धनग्रहणकाल उपदिष्टः । तंददेशं दिशति । अथवा देशसाक्षिणो व्याख्यातास्तान् साक्षिणो देशकालादाव- संभवतो निर्दिशति । निर्दिश्य देशादिकमपजानीते-- ‘नैतन्मया निर्दिष्टमि’ ति । यश्चाघरोत्तरानर्थान् पौरस्त्या- नौपरिष्टांश्च विगीतान् विरुद्धानभिहितान्नावबुध्यते । यद्वा पूर्व वक्तव्यं तत्परस्माद्वक्ति, यत्परतस्तत्पूर्व क्रमभेदं च वचनगतमात्मनो नानुसंधत्ते, हीनः स इति निर्दि- शेत् इति सर्वत्र क्रियानुपङ्गो भविष्यतीति । मेधा. (२) अदेशमिति । अपदिश्येति । असंभाष्येति । बृहीति | अभियोक्ता दिशेदित्युक्तं, तत्र योऽर्थी तथा विधं देशं निर्दिशति, यत्र दानग्रहणे न संभाव्येते अध- मर्णस्य वा तदानीं तत्रावस्थानं न संभवतीति । यश्चा- देशादिकं निर्दिश्य न तन्मया निर्दिष्टमित्येवं पश्चादप जानीते, यो वा पूर्वपश्चादुक्तानर्थान् परस्परविरुद्धान्नाव गच्छति, यश्चानेन मम हस्तात्सुवर्ण गृहीतमित्येवं निर्देष्टव्यं निर्दिश्य एतत्पुत्रेण गृहीतमित्येवमादिना पुनरपमरति, यो वा प्रतिज्ञाकालोपन्यस्तमर्थ कस्मात्पुनस्तथा राज्यादौ दानग्रहणं कृतमित्येवमादिरूपेण पूर्वपक्षविस्तारकाले प्राड्विवाकेन सम्यक् पृष्टः सन्नन्तर्धत्ते, यश्च संभाषणानह x शेषं व्याख्यानं 'देशादेशान्तरम्' (यास्मृ. २११३) इत्यादि- याज्ञवल्क्यश्लोके द्रष्टव्यम् । (१) मस्मृ. ८/५३ शं ( इयं); गोरा. हुते च यः (हवीति च); व्यक.३३ शं (श्यं) विगी (विनी) बु (रु); स्मृच.४७ शं ( इयं ) गीता ( हीना) ; स्मुसा. १२१ शं (इयं); व्यनि शं (श्यं) नारदः; स्मृचि.४१ शं (यं ) च यः (वय:) नारदः; उयसौ.३२ शं (श्यं); ब्यप्र.७४ शं (श्यं); प्रका. ३० स्मृच. बत् ; समु. २३ शं ( इयं). १ च ग्र. २ तदा देशे दीयते. ३ लाव. भ्य. का. २५ १९३ उपहरादी देशे साक्षिभिः परस्परं भापते, यश्च साक्षिप्रश्चं क्रियमाणं नेच्छति वा, सभातः प्रतिवादिसंनिहिते हठादु- तत्य गच्छति, अथास्मिन्पूर्वपक्षे किं ब्रूहीत्युक्त उत्तरं च न ब्रूयात्, यो वा प्रतिज्ञातं साक्षिभिर्न विभावयेत्, पूर्व वा साक्षिगतं न जानीयात् स्वगतस्मश्रश्राघरोत्तराणि (?) व्यक्तत्वात्स तस्माद्व्यवहाराद्धीयते । =गोरा. (३) अदेश्यं निर्णयसमयासंभविनं साक्षिणं यो निर्दि- शति । +स्मृच.४७ (४) किञ्च अदेश्यादिषड्भिः श्लोकैरघमणं त्तमर्णयोः पराजयहेतूनाह ।

  • मच.

(५) अदेश्यं अनुपयोगासभ्यत्वादिना निर्देशान हम् । दिशति कथयति । व्यप्र. ७४ (६) हीनलक्षणं पञ्चभिः श्लोकैराह - अदेयं यश्चेति । अदेयं दानादानयोरयोग्यं देशकालादिकम् । नन्द. (७) योऽधमर्ग: अदेश्यं असाक्षिकं दिशति कथयति । च पुनः अदेश्यं असाक्षिकं निर्दिश्य कथ- यित्वा अपह्नुते निहुते च । ÷भाच. अंपदिश्यापदेशं च पुनर्यस्त्वपधावति । सम्यक् प्रणिहितं चार्थ पृष्टः सन्नाभिनन्दति x ॥ (१) पूर्वणार्धेनोक्तस्यार्थस्य निगमनम् | उत्तरेणानु- तोऽर्थ उच्यते । यदुक्तम्- 'अदेशं यश्च दिशति निर्दि- व्यापह्नुते च यः' इति स एवार्थाऽपदिश्येत्यस्य । अदेश एवापदेशः । तमपदिश्य कथयित्वा पुनः पश्चादपधावत्यप- सरति । नैतौ देशकालौ मम निश्चिती, यावत्सुदेशकालावब- धारयति । तावदेयं पश्चाद् ब्रवीति सोऽपि तस्मादर्थाद्धी यते । सम्यक् प्रणिहितं चार्थमनाकुलं निश्चितमुक्तं यदा पृच्छते, यथाऽनेनोक्तं तत्र किं ब्रवीषि केन वा प्रमाणेन = व्यक, मवि. गोरागतम् । ममु. गोरावत् । +शेषं मेधागतम्

  • पदार्थो मेधावत् । शेषं गोरागतम् | x अत्रत्यं गोराव्या-

ख्यानं 'अदेशं यश्चेति लोके द्रष्टव्यम् | व्यक, स्मृच, ममु., व्यप्र. गोरावद् । (१) स्मृ.८५४ शं ( इयं); व्यक. ३३ मस्मृवत्; स्मृच. ४७; स्मृसा. १२१ रत्वप (स्त्वव ) प्रणि ( च नि); ब्यनि स्त्वप (स्त्वव) नारद:; स्मृचि. ४१ स्त्वप (स्त्वव) नार्थ (वार्थ) नारद:, व्यसौ. ३२ शं ( इयं) स्त्वप (स्त्वमि) चार्थ (वार्थ); व्यप्र. ७४; प्रका. ३०; समु. २३ मस्मृवत्. १ शेत्य. २ लोऽव. ३ दयं मझमिति ४ यदा.