पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/१५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दर्शनविधिः ८१ अपूर्व विधिरिति वैरूप्यं चापद्यते । व्यवहारदर्शन मात्रोपाय- कत्वं यदि दुष्टादुष्टपरिज्ञानस्य तर्हि तदर्थ तयाऽननुष्ठाना- र्थता ज्ञानस्येति विधिर्व्यर्थः । अथ यथा भट्टसोमेश्वरे- गानुष्ठानं विनाभूतस्यापि ज्ञानस्य विध्यधीनाङ्गत्वनिर्वा- हाय 'यदेव विद्यया' इत्यादिवाक्येन कमर्थितया विधि- रभ्युपगतो, यथा च मिश्रादिभिर्लिङ्गादेवाङ्गत्वं ज्ञानस्येत्यु क्तम् । तथा व्यवहारदर्शनस्य तदविनाभावेऽपि विधिरभ्यु- पेयताम् । मैवम् । कर्मानुष्ठानस्यापूर्वसाधनत्वात्तत्पर्यवसा- (७) अत्र 'व्यवहारान् नृपः पश्येत्' इति विधिः विज्ञान विधिरविनाभावेऽप्यस्तु । दुष्टादुष्टपरिज्ञानस्य तु स्वापराधेन व्यवहारस्य समाप्तत्वात् स्ववागनुसरणरूप | तदभावान्नाङ्गापेक्षेति वैषम्यम् । न चास्यापि प्रजापाल- छलमेवालम्बते । न तु प्रमाणान्तरगवेषणं विलम्बत्वा नमदृष्टार्थमुपकुर्वतः परम्परयास्त्येवापूर्वपर्यवसानमित्य द्विधेरिति । स्त्वङ्गत्वार्थ एव विधिरिति वाच्यम् । एवमपूर्वपर्यवसा- यिविधिसंभवेऽपि श्रुत्याद्यभावेऽनारभ्यविधेरङ्गत्वाबोधक- त्वात् । अन्यथाऽध्ययनाध्यापन योरप्यङ्गत्वापत्तेः । ज्ञानस्य तु वाक्यादेवाङ्गत्वं 'यदेव करोति' इति श्रव- णात् । येन कर्मणेच्छेत्तत्र जपेज्जुहुयात् । 'एवं विना- यकं पूज्य ग्रहांश्चैव विधानतः । कर्मणां फलमाप्नोति... ......॥ (यास्मृ. ११२९३) इति च श्रवणा जपहोम- विनायकस्नपनग्रहयज्ञानामिव । अत एवाध्ययनाधानयो रङ्गत्वाभावाज्ज्ञानाहवनीयादिफलमात्रपर्यवस्तिर्न प्रति कर्मप्रयोगावसायित्वम् । सकृदेव त्वाधानाध्ययनानुष्ठाने तजनितज्ञानाग्निमतां त्रैवर्णिकानामुत्तरोत्तरकर्ममात्रावि कारितेति सिद्धान्तः । शुद्राअधिकारनिवृत्तिश्च । तद्विधि- बोधिताध्ययनाधानोपायकज्ञानाभिलाभः । न्तरस्य ज्ञानाग्निद्वारका क्षेपप्रतिक्षेपात् । प्रजापालनं परं ज्योतिष्टोमाद्यपूर्वमिव स्वफळापूर्वी जनयतीत्यन्यदेतत् । उपाया- अत्र ब्रूमः -व्यवहारदर्शनोत्पत्तावत्र विस्तात्पर्यम् । अन्ये तु विधयस्तस्य निमित्तफलोपाधि देनाधिकार- विधयः । प्रयोगभेदश्च 'अभिहोत्रं जुहोति' इत्युत्पन्न स्थ | ‘यावज्जीवमग्निहोत्रं जुहुयात्' 'अग्निहोत्रं जुहुयात् स्वर्ग काम' इत्यत्रेव । अतो न वैरुप्यादिदोषः । दृष्टया तु न विधिरवं प्रमाणान्तरसिद्धत्वात्तस्य । यद्यपि व्यव हारशास्त्रे न्यायसिद्धानुवादका एव प्रायो विधय इत्ये तस्यापि तथात्वे न बाधकं, तथापि विधित्वे सम्भवत्य नुवादत्वमङ्गीकर्तुमनर्हम् । यत्र तु तदसम्भवस्तत्र तदे- वाश्रीयते, व्यवहारशास्त्रत्वादिति सकलनिबन्धस्वरसा द्वितीयाध्यायादिश्लोकस्यैव प्रपञ्चः सकलाध्यायशेष इति गम्यते । राज्ञः प्राधान्ये ब्राह्मणानां चोपसर्जनत्वे फल- माह - अतश्चादर्शन इति । अयमभिप्रायः राज्ञः प्राधा- न्यादधिको दोषः । ब्राह्मणानां तु तादृशदोषाभावः । न तु सर्वात्मना दोषाभावः । तथा च 'सभा वा न प्रवे ष्टव्या वक्तव्यं वा समञ्जसम् | अब्रुवन्विब्रुवन्वापि नशे भवति किल्बिषी ॥' (मस्मृ. ८|१३) इत्यनेन विरोधः स्यादिति । सुचो. सवि. ५४ (८) अत्र यद्यपि व्यवहारदर्शनं पूर्वाध्याय एवोक्तं तथापि सकलाङ्गोपेतव्यवहारस्याऽत्रैव प्रदर्शनादयं व्यव- हाराध्याय इति श्लोकैरुच्यते । ब्राह्मणैरिति मुख्यः कल्पः । असम्भवे क्षत्रियैर्वैश्यैर्वा सह । धर्मशास्त्रस्य प्राधान्यं दर्शयितुं विशेषोपन्यासः । विचारेऽर्थशास्त्रस्या प्यनुसर्तव्यत्वात् । धर्मशास्त्रानुसार्यपि निर्णयो न वादि- क्षोभकरपरुपभाषणपराजिताधिकदण्डादियुक्तः कार्य इति दर्शयितुं क्रोधलोभविवर्जितत्वमुक्तम् । धर्मशास्त्रानुसारे णेत्युक्तं तत्र धर्मशास्त्रस्थितिमाह संपूर्णाध्यायेन | वीमि (९) अत्र 'व्यवहारान्स्वयं पश्येत्सभ्यैः परिवृतोऽन्व- हम्' । (यास्मृ. १।३६०) इत्यनेनैव याज्ञवल्क्येन विहि- तस्य व्यवहारदर्शनस्यानुवादो ब्राह्मणसाहित्यादिविधा नार्थः । न च क्रियानुवादेनानेकगुणविधाने वाक्यभेदः । दर्शनकर्तृतया वाक्यान्तरप्राप्ते तावद्विशेषणविशिष्टस्यै कार्थस्य बोधनात्तदनापतेः । पौरुषेयवाक्ये तात्पर्यानुरो धेन तस्यादोपत्वाच्च । ननु सर्वेऽपि व्यवहारदर्शनविधयां न तावत्केवलाऽदृष्टार्थाः । प्रजापालनौपथिकदुष्टशदुष्टपरि ज्ञानस्य दृष्टस्यावश्यकत्वात् । न च तदेव फलमिति वाच्यम् । स्वर्गादिफलस्य अदर्शनान्यथादर्शनयोः प्रत्य वायस्य च वचनान्तरैबंधनात् । तथा च कात्यायनः ' सप्राड्विवाक: सामात्यः सव्राह्मणपुरोहितः । ससभ्यः प्रेक्षको राजा स्वर्गे तिष्ठति धर्मतः' इति । किञ्च दुष्टा दुष्टपरिज्ञानोपायेष्वनेकेषु प्राप्तेषु विधावस्मिन्नभ्युपगम्यमा नेऽयं नियमविधिः स्वर्गादिफलप्रत्यवायपरिहारयोर्भव्यत्वे ब्य. का. १९