पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/१५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७४ व्यवहारकाण्डम् संबन्धीनि कार्याणि निर्णयेत् । तत्र देशाचारोऽनुकल्पः । पमा ४१ (७) देशदृष्टैः देशजातिकुलव्यवहारागतैः प्रत्यक्षै- न्या॑यैर्हेतुभिर्वा । मच. (८) देशदृष्टा हेतवो द्विविधाः – सर्वदेशव्याप्ताः, देशविशेषनियताश्चेति । शास्त्रदृष्टा हेतवः तप्तमापादयः । 1 नन्द. कार्यदर्शनविधिः धर्मासनमधिष्ठाय संवीताङ्गः समाहितः । प्रणम्य लोकपालेभ्यः कार्यदर्शनमारभेत् || (१) धर्मः प्रधान: यस्मिन्नासने भवति तद्धर्मासनम् । राजासने हि राज्यस्थित्यानुगुण्येनार्थमेव प्रधानीकरोति न्यकृत्यापि धर्मम् । व्यवहारनिर्णये तु धर्ममेव प्रधानं आश्रयेत् इत्यर्थो न पुनराश्रयभेदोऽनेन ज्ञाप्यते । संवीताङ्गः वस्त्रादिना स्थगितशरीरः । प्रणम्य लोक- पालेभ्यः इन्द्राद्यष्टौ लोकपाला: तान्नमस्कृत्य कार्य दर्शनमारभेतेत्यदृष्टार्थमेतद्द्वयं अङ्गसंवरणं लोकपाल प्रणामश्च । समाहितः अनन्यचित्तः कार्यदर्शने । एवं हि दृष्टार्थ भवति । प्रणामविशेषणं वा । समाहितग्रहणं यद्यप्यत्र किञ्चिदुक्तमेव प्रतिभाति तथापि पद्यग्रन्थत्वा- नातीव पौनरुक्त्यम् । लोकपालेभ्य इति चतुर्थी संप्रदाने कथम् ? क्रियाग्रहणं संप्रदानसूत्रे चोदितं 'श्राद्धाय निगुण्हते’‘पत्ये शेत’ इत्याद्यर्थम्, न च क्रियाग्रहणं गुण्डा त्यादिविषयमेव । भाग्येऽनुक्तत्वात् । मेधा. (२) धर्मदर्शनार्थी आसने उपविश्य आच्छादित- देहोऽनन्यमना लोकपालान्नमस्कृत्य ततो व्यवहारेक्षणं राजा चरेत् । ÷गोरा. भवि. स्मृच.३१ (३) धर्मार्थमासनं धर्मासनम् । (४) शास्त्रोक्तकाल इति शेषः ÷ ममु. गोरावत् । (१) स्मृ.८२३; शुनी. ४।५४५ (धर्मासनमधिष्ठाय कार्यदर्शनमारभेत्); गोरा. रभे (चरे); व्यक. ३; स्मृच. ३१ ; पमा ५२; व्यनि.; स्मृचि. २; दवि . १३ उत्त.; नृप्र. २, ५; व्यस. २००; सवि. ७७; व्यप्र. ९; व्यउ.६; राकौ. ३८२ धर्मा (भद्रा) बृहस्पतिः; बाल. २११ सन(श्रय) रभे (लभे); सेतु. ९६; प्रका. १९; समु. १४. (५) कार्यमुक्ताष्टादशाख्यं तस्य दर्शनं विचारः । मच. राशो यमव्रतम् - समभाव: यम् । यथा यमः प्रियद्वेष्य प्राप्ते काले नियच्छति । तथा राज्ञा नियन्तव्याः प्रजास्तद्धि यमव्रतम् ॥ (१) अपराधेन प्रियद्वेप्ययोर्निग्रहसमत्वेन वर्तित मेधा. (२) यद्यपि यमस्य शत्रुमित्रे नस्तस्तथापि तन्निन्द- कार्चकयोः शत्रुमित्रयोर्यथा यमः शत्रुमित्रमरणकाले तुल्यवन्नियमयति, राज्ञाऽपराधकाले रागद्वेपपरिहारेण प्रजाः प्रमापणीयाः । यस्मादेतदस्य याम्यं व्रतम् । ममु. विवाद्यकार्यनिर्णये तर्क उपाय : यैथा नयत्यसृपातैर्मृगस्य मृगयुः पदम् । नयेत्तथाऽनुमानेन धर्मस्य नृपतिः पदम् * ॥ (१) यदुक्तं न स्वयं दृष्ट्वापि राजा सहसा कश्चि दाक्रमेत वा निगृहीयाद्यतः नर्मणाऽप्येतत्संभवति । कथं पुनरेतदेव गन्तव्यम् ? किं परिहासकृतमेतदुत क्रोधाद्य नुबन्धकृतमिति । यत आह अनुमानेनैतज्ज्ञातव्यम् । यथा मृगयुर्मृगव्याधो विद्ध्वा मृग नष्टं दृष्टिपथादप- क्रान्तं छिद्रनिसृतैरसृक्पातैः सवद्भिः शोणितः पदं मृगस्थ नयत्यासादयति, एवं राजाऽनुमानेन परोक्षे प्रत्यक्ष वाऽर्थे कारणं निश्चिनुयात् । धर्मश्च व्यवहारविषयस्तत्वा- वगमः । उक्तस्याप्यनुमानस्य पुनर्वचनं स्मृतिदादर्थार्थम् । xमेधा. (२) यथा मृगस्य शस्त्रहतस्य रुधिरपातः व्याधः पदं स्थानं प्राप्नोति । तथाऽनुमानेन इष्टप्रमाणेन वा धर्मस्य तत्वं निश्चिनुयात् । ममु. (३) न केवलं साध्यादिभिरर्थो निर्णेतव्यः । किन्त्व-

  • अत्रत्या मन्वर्थविवृतिः मण्डलिंकमुद्रितग्रन्थस्या शुद्धिसंदे-

हान्नोद्धृता । x गोरा, मच. मेधागतम् । (१) स्मृ. ९।३०७; स्मृच. २४ नारदः; पमा ३७ बूह- स्पतिः; प्रका. १३ नारदः; समु. ९ नारदः (२) स्मृ.८४४; व्यक.६; मभा. ११।२५ नयेत्तथाs- नुमानेन (तथाऽनुमानेन नयेत् ) नारदः; स्मृच. २५; मा. ३९; व्यनि.; स्मृचि. ६) सवि. ७१; व्यसौ. ५; प्रका. १४; समु.१०.