पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/१४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६२ व्यवहारकाण्डम् नृपस्थानं समाश्रित्य पूर्ववादं भजन्ति ते ।। शास्त्रितसभायाः सभान्तरेभ्यः प्राबल्यमाह पिता महः–पूर्वस्थानेति । पूर्ववादं पूर्वपक्षमित्यर्थः । नृपस्थान- ग्रहणं प्रबलस्थानोपलक्षणार्थम् । स्मृच. १८ कुलादिभिः कृतं कार्य विचार्य तद्यथोत्तरम् । असंतुष्टस्य कर्तव्यं यावद्राजकृतं भवेत् ॥ ग्रामे दृष्टः पुरं यायात पुरे दृष्टस्तु राजनि । राज्ञा दृष्टः कुदृष्टो वा नास्ति तस्य पुनर्भवः ॥ यत्पुनः पितामहेनोक्तं ‘ग्रामे दृष्ट' इत्यादि, तत् पूर्व- सभातः प्रकृष्टसभान्तरालाभविपयम् । स्मृच. १२९ बहुभिरेव निर्णयम् तैस्मान्न वाच्यमेकेन विधिज्ञेनापि धर्मतः ॥ प्रजापतिः अभिषिक्तः क्षत्रियो राजा ब्राह्मणो वा प्राइविवाकः राजाऽभिषेकसंयुक्तो ब्राह्मणो वा बहुश्रुतः । धर्मासनगतः पश्येयवहारानुल्वणः ॥ (१) अनुल्वणोऽनुद्धत इत्यर्थः । एतदपि राजोऽभि पित्तस्य व्यवहारदर्शनं कर्तव्यमिति विधानार्थं न पुन- रितरस्य प्रतिषेधार्थ तथात्वे परिसंख्यापत्तेः । अत एवा- नन्तरमेवोक्तं तेनैव एवमिति । स्मृच. १६ (२) अत्र राजशब्दोऽवेष्टयधिकरणन्यायेन (पूमी. २|३|२) क्षत्रियजातिवचनः । अभिषेक संयुक्त इति वचनात् । स्मॄत्यन्तरेऽप्यभिषिक्तक्षत्रियं प्रक्रम्य तदभिधानाच्चानभिषिक्तक्षत्रियस्य नाधिकारः । अतश्च तत्प्रयुक्तशुभाशुभफलयोस्तद्द्वामितैव । प्राइविवाकादीनां तु प्राक् प्रदर्शितेभ्य: 'अन्यायेनापि तं यान्तम्' इत्यादि वाक्येभ्यो राज़ोऽनिवारणे परं दृष्टादृष्टदोषभागिता । अनियुक्तानां तु न तत्रापीत्यादि मिताक्षरादौ व्यक्तम् । ब्राह्मणो वेत्यनुकल्पत्वाभिप्रायको वाशब्दो न तुल्यकक्षा धिकारपरः । अनुल्वणः अनुद्धतः । सभापतिश्च (१) व्यनि; प्रका. ९३ समु. ७. (२) अभा. ७ पुरं यायात् (पुरे याति) तस्य पुनर्भव: (पौनर्भवो विधिः); स्मृच. १९,१२९; पमा. ४२ पुरं ( पुरे) भव: (भयम्); प्रका.९: समु. ७. (३) स्मृच. १८; सवि.६ ७; प्रका.९; समु. ८. (४) स्मृच. १६, २३; पमा ३६ णः (णम्); नृप्र. ५ व्यप्र. २५; व्यउ.१२ प्रभावत; प्रका. ७; समु.५. नृपतिरेव । 'दुर्गमध्ये गृहं कुर्यात्' इत्यादिना बृहस्पत्या- दिभिः सभानिर्माणतद्रक्षणा देस्तत्र सभ्योपवेशनादेश्च तं प्रत्येव विधानात् । 'अदण्ड्यान्दण्डयन् राजा दण्ड्यां चैवाप्यदण्डयन् । अयशो महदाप्नोति नरकं चैव गच्छति' || मम्मू. (८ | १२८) 'अपि भ्राता सुतोऽध्यां वा श्वशुरो मातुलोऽपि वा । नादण्डयो नाम राज्ञोऽस्ति धर्माद्रिचलितः स्वकात् ॥ ( यास्मृ. १३५८) इत्यादिभिर्नित्यकामाधिकारयोस्तस्यैव ग्रहणात् । प्रजा पालनाधिकाराच्च । व्यप्र. २५-२६ सामन्तक्षत्रिया: प्राड्विवाका भवन्ति, अक्षत्रियराज्ञां ब्राह्मणा एव ऐवं क्षत्रियसामन्ताः स्वदेशेषु पृथक्पृथक् । इतरेषां नृपाणां तु कुर्याद् ब्राह्मणपुङ्गवः ॥ धर्मासनगता अनुलवणाः सन्तः क्षत्रियसामन्ता व्यव हारान्पश्येयुः । इतरे पुनर्नृपाः ब्राहाणवैश्यादिजातीयाः स्वाधिकार सिद्धये ब्राह्मण श्रेष्ठमेव सदा व्यवहारद्रष्टारं कुर्मुरित्यर्थ: । यत्पुनस्तेन 'ब्राह्मणो वा बहुश्रुत' इति पक्षान्तरमुक्तं तदपि न ब्राह्मणस्याधिकारप्रतिपादन- परं किन्तु विनाऽपि राजानं बहुश्रुतः प्राइविवाको वा राजनियोगात्पश्येदित्येवंपरम् | ब्राह्मणस्य नास्त्यधिकारी व्यवहारदर्शन इति प्रागेव दर्शितत्वात् । स्मृच.१६ स्ववर्गे वर्गीयास्त्रयो निर्णतार: स्ववर्गे त्र्यवरा धर्मान्प्रब्रूयुः । हारीतः प्राइविवाकेन शक्यमुद्धरणीयम् यथा शल्यं भिपक्कायादुद्धरेद्यन्त्रयुक्तिभिः । प्राविवाकस्तथा शल्यमुद्धरेयवहारतः + || भिषक वैद्यः । शल्यमत्र छलम् । रार. १९ मिथ्या दर्शन निन्दा अन्धो मत्स्यानिवाश्नाति निरपेक्ष : सकण्टकान् । परोक्षमर्थवैकल्याद्भापते यः सभां गतः + ॥

  • व्यउ.व्यप्रवत्। +व्याख्यासंग्रहः नारदे (पृ.४७,४८)द्रष्टव्यः।

(१) स्मृच. १६; प्रका. ७; समु. ५. (२) मभा. ११।२४. (३) व्यक. १० यन्त्र (यत्न ) भि: (तः) नारदहारीतौ; रार. १९ (यथा शल्यं भिपक्कार्यमुद्धरेन्मन्त्रशक्तित:); व्यनि.; व्यप्र. २४ भि: (त:) नारदहारीतौं; व्यउ. १५ व्यकवत्. (४) व्यक. १४ नारहारीतौ; स्मृच. २१; प्रका. १२ भां (भा); समु. ८.