पृष्ठम्:दैवम् (पुरुषकारव्याख्यासमेतम्).pdf/९८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७३
पुरुषकारोपेतम् ।

पुरुषकारोपेतम् ।

संक्षोदे मृड सुखनार्थे च कुन्थ संक्लेशे' इति श्लोकधातुपाठः। क्कचित्तु 'मृड च' इति क्षोदार्थतैव दृश्यते ॥

 वैकल्यदाहरक्षासु कुण्डेत् कुण्डेत कुण्डयेत् ।

  'कुडि वैकल्ये' । शाकटायनः पुनष्टकारान्तमध्येऽमुमध्यै- ष्ट । क्षीरस्वामी त्वाह - 'कुठीति कौशिकदुर्गौ । कुण्ठति कुण्ठः' इति । 'कुडि दाहे' । अनुदात्तेत् । 'कुडि रक्षणे' ॥

 तोडनार्थे तुडेस्तुण्डेस्तुडेत् तोडति तुण्डते ॥ ८ ॥

  तुड्योस्तुण्डेश्च तुडोदित्यादि भवतीत्यर्थः । 'तुड तोडने । तुदादिः । 'तुडृ तोडने' । तूडृ इति शाकटायनः । 'तुडि तोडने' अनुदात्तेत् । तच्च दारणं हिंसा च । यदाहान्त्ययोः क्षीर- स्वास्मी॥

 कल्याणे भण्डयेद्भण्डेः परिहासे तु भण्डते ।
 प्रेरणे जोडयेच्छे तु बन्धने जुडतीति च ॥ ८९॥

  'जुड बन्धे' । तत्र चैवं यथापठितेऽर्थे जोडयेदिति जुड- तीति च भवतीति वाक्यार्थसमुच्चये चकारो व्याख्येयः; न पुन- र्बन्धन एव जोडयेदिति च भवतीति ॥

 सङ्घाते पिण्डयेत् पिण्डेस्तत्रैव शपि पिण्डते ।

  पिडि सङ्घाते' । अन्त्योऽनुदात्तेत् ॥}}


१. 'च यदा' इत्यस्य स्थाने 'चेत्या' इति पठनीयं भाति. २. 'भडि कल्याणे'. ३. 'भडि परिभाषणे'. अनुदातेत् . तच्च परिहासः सनिन्दोपाल- म्भश्च । 'यः सनिन्द उपालम्भस्तत्र स्यात् परिभाषणम्' इत्यमरः । " 'परिहास' इति देवः । 'परितो भाषणं पारिभाषणम्' इति स्वामी" इति माधवः.


६ इदमर्धें गपुस्तके न पठ्यते.