पृष्ठम्:दैवम् (पुरुषकारव्याख्यासमेतम्).pdf/९७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७२
दैवं

 कण्डयेदिति भेदे णौ मदे तु शपि कण्डते ॥ ८६ ॥

  'कडि भेदे । स चात्रावघातः । 'कडि मदे। अनुदा- चेत् । कडेर्भूवादितुदाद्योः पाठात् केडतीत्यपि भवति । क्षीर. स्वामी तु भूवादौ परस्मैभाषमपि कडीत्येव पठित्वाह -'कडेति दुर्गः' इति ॥

 लाडयत्युपसेवायां विलासे तु लडेच्छपि ।

  'लड उपसेवायाम्' । 'लड विलासे' । 'लड ईप्सायां वेति च क्षीरस्वामी । लळयोर्लडयोश्च कैश्चिदविशेषाश्रयणाल्ला. ळयति ललनेत्यपि भवति । घटादौ पुनः पठ्यते । 'जिह्वोन्मथने लडिः' इति । जिह्वाया उन्मथने लडिर्मिद्भवतीत्यर्थः । लडयति जिह्वाम् । कौमारास्त्वाहुः – 'अन्ये जिहोन्मथने इति द्वैन्द्वं व्या- चक्षते । तदा लडयति शत्रुमित्यपि भवति' इति । क्षीरस्वामी तु- "जिह्वोन्माथनयोर्लङिः' । लड विलास इत्ययं भूवादिर्जि- ह्वाविषयायां क्रियायामुन्माथे च मित् । लडयति जिह्वाम् । ल- डयति दधि । अन्यत्र लाडयति मित्रम् । जिहोन्मथन इति । गुप्तः । 'जिह्वाशतान्यल्लडयत्यभीक्श्णम्” इति । धनपालस्तु- 'जिह्वोन्मथने लडिः । आर्याणान्तु जिह्वान्मथनयोरिति पाठः' इति ॥

 मृडेर्मण्णाति सुखने तत्रैव मृडतीति शे ॥७॥

  'मृड सुखने । क्रयादिः तुदादिश्च । अन्ये त्वाद्यं 'मृद क्षोदे, मृड सुखने च' इति पठन्ति । तथाच 'गुध रुषि मृद


१. 'कड मदे' इत्येवंरूपात्. २. अस्योभयत्र पाठफलं तु 'स्वरभेदाद द्विरुध्यत' इति (५५श्लो.) पूर्वोक्तनीत्यावगन्तव्यम् . १. उन्मथनं क्षोभणार.

१. समाहारद्वन्द्वम्.